Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४४०
दर्पणपरीक्षासहिते भूषणसारेअयम्भावः-"नामरूपे व्याकरवाणि” इति श्रुतिसिद्धा द्वयी सृष्टिः । तत्र रूपस्येव नाम्नोऽपि तदेव तत्त्वम् । प्रक्रियांशस्त्वविद्याविज़म्भणमात्रम् । उक्तञ्च वाक्यपदीयेशास्त्रेषु प्रक्रियाभदैरविद्यैवोपवर्ण्यते ।
दर्पणः तत्र शब्दोपादानत्वस्य तन्त्रान्तरे गगनादौ प्रसिद्धः कथं ब्रह्मणस्तदुपादानत्वमित्या. शङ्कायामाह-*अयम्भाव इत्यादि । *नामरूपेति । “अनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति श्रुतिसिद्धेत्यर्थः । *द्वयीति । नामरूपात्मकद्वयवयवसमूहरुपेत्यर्थः । तत्रेति । सृष्टिद्वयमध्ये । *रूपस्येवेति । आकाशाद्यात्मकार्थस्येवेत्यर्थः । *नाम्न इति* ॥ तद्वाचकशब्दस्यापीत्यर्थः । *तदेव-ब्रह्मैव । तत्त्वमुपादा. नमित्यर्थः । "तस्मादेतस्माद्वा आत्मन" इत्यादिश्रुतेः । शब्दतन्मात्राकाशोपादानत्वे पर्यवसानाद्वयोरप्युपादानं ब्रह्मैव । अत एव तयोः परस्परमभेदसिद्धिः। स्वोपादा. नब्रह्माभिन्नत्वात् । न च ब्रह्मणो जगदुपादानत्वे विकारित्वाऽऽपत्तिः। जगदेतद्विव. तते' इति वदता मूलकृतैव समाहितत्वात् । तथाच व्यावहारिकप्रातिभासिकपदार्थनिरासेन श्रुत्या ब्रहौव परिशेषीक्रियते इति प्रागुक्त एवाऽर्थः।
ननु नानात्वस्य सर्वथैव मिथ्यात्वे कथं स प्रत्ययो लोकानामत आह-*प्रक्रियांशस्त्विति । प्रकृतिप्रत्ययपञ्चकोशादिव्यवहारांशत्स्वित्यर्थः । *अविद्येति । मलि. नसत्त्वाज्ञानविलास एवेत्यर्थः । तथाच ब्रह्माऽतिरिक्तत्वेनाऽसत्यानामपि तेषां पार्थक्येन प्रतीतिरधिष्ठानाऽज्ञानकृतैवेति । न यावदधिष्ठानाज्ञानं तावत् तन्निवृत्तिरिति भावः । यद्वा ननु तादृशब्रह्मज्ञाने कथं शास्त्राणामुपयोगोऽत आह-*प्रक्रियांश इति । प्रकृतिप्रत्ययादिव्युत्पादनं त्वित्यर्थः ॥ *अविद्येति । तथाच पञ्चकोशादिन्यायेन शास्त्राणामुपयोगो, न तु तज्ज्ञाने साक्षादुपयोग इति भावः । *अविद्यैवोपवः यते इति । वाक्यपदीयाऽनन्तरम्
उपायाः शिक्ष्यमाणानां बालामुपलालनाः।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति श्लोकः । “समारम्भात्तु भावनामित्यस्य" पूर्वार्द्धन्तु
परीक्षा एतादृशं यत्तद् ब्रह्म। “सर्वेषु भूतेषु नश्यत्सु न नश्यति इति स्मृतेः। *शब्दतत्त्वमिति। अन शब्दपदं रूपस्याप्युपलक्षणम् । *द्वयी*-नामरूपात्मिका । *तदेव ब्रह्मैवेति । *तत्त्वम्* उपादानम् । तदुक्तं श्रुतौ-"अनेन जीवनानुप्रविश्य नामरूपे व्याकरवाणि" इति । सृष्टेयोरूपत्वन्त्ववयवकसमुदायरूपतया । “सृष्टेब्रह्मण एव सम्भवश्व" "तस्मादेद्वाऽऽत्मन आकाशः सम्भूत आकाशाद्वायुः”इति श्रुतावपि प्रसिद्धम् ।
ननु ब्रह्मण एव नामरूपसृष्टयुपादानत्वञ्चेदुपादानोपादेययोस्तादात्म्याद ब्रह्मणोऽपि नानात्वमेव सिद्धम् , तथा च कथं सत्यत्वमत आह-*प्रक्रियांशस्त्विति । प्रकृतिप्रत्ययादिकथनञ्च कोशादिव्युत्पादनमाकाशादिसृष्टयुपादानत्वस्य च प्रतिपादनांशस्त्वित्यर्थः। *अविद्याविजृम्भणम् । मलिनसत्वाविद्यानामज्ञानविलास एवेत्यर्थः।
अन्न हरिसम्मतिमाह-*उक्तञ्चेति । अत्र पूर्वार्द्धमन्यत्रोक्तम् । उत्तरार्द्धस्य
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502