Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 465
________________ ४३६ दर्पणपरीक्षासहिते भूषणसारे अनेकाभिर्वर्णव्यक्तिभिरभिव्यक्तैव जातिः स्फोट इति स्मृता । योगार्थतया बोधिकेति यावत्। एतेन स्फोटस्य नित्यत्वात्सर्वदार्थबोधापत्तिरित्यपास्तम् । अयम्भावः-यद्यपि वर्णस्फोटपक्षे उक्तदोषोऽस्ति; तथापि पद. वाक्यपक्षयोर्न । तत्र तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमा. दर्पणः बोधापत्तिरिति ॥ तदभिव्यञ्जकवर्णसत्त्वादिति भावः ॥ श्योगार्थतयेति ॥ स्फुट. त्यर्थोऽस्मादिति वक्ष्यमाणावयवव्युत्पत्येत्यर्थः ॥ *एतेनेति । तत्पदघटकयावद्वर्णाभिव्यक्तजातेर्वाचकत्वाङ्गीकारेणेत्यर्थः । *सर्वदा । पदाश्रवणेऽपि । *अपास्तमिति* जातेः सनातनत्वेऽप्युक्तस्थले व्यञ्जकासमवधानात्तदभिव्यक्त्यभावेन बोधस्यापादा. यितुमशक्यत्वादिति भावः ॥ ननु वर्णजातिस्फोटपक्षे पटघटकयावद्वर्णगतजातीनामेवार्थबोधकत्वमुपगन्तव्यम् । तत्र चान्यवर्णगतजातेरन्यवर्णानभिव्यङ्गयत्वात्तत्तद्वर्ण एवाभिव्यञ्जको वाच्यः । तथा चोक्तदोषस्तदवस्थ एवेत्यत आह-अयम्भाव इति* ॥ *उक्तदोष इति ॥ तथाच दुष्टत्वात् स पक्षो नाश्रयणीय इति भावः॥ *तत्रेति* ॥ पदे वाक्ये च ॥ *तस्याः*पदत्वादिजातेः ॥ *व्यासज्यवृत्तित्वस्येति ॥ पर्याप्त्याख्यविलक्षणसम्बन्धेन वृत्तित्वस्येत्यर्थः। __ ननु जातेः समवेतत्वस्यैव सार्वत्रिकतया कथमेतस्याः पर्याप्तत्वमत आह-*धर्मिग्राहकेति* ॥ धर्मवती जातिस्तद्ग्राहकं मानं पदत्वस्य वा वाक्यत्वस्य वाचकत्वाऽनुपपत्तिस्तत्सिद्धत्वादित्यर्थः । प्रत्येकवर्णविश्रान्तजातेर्वाचकत्वस्योक्तदूषणकवलितत्वेनासम्भवाद्वाचकत्वानुपपत्त्या कल्प्यमाना पदत्वादिजातियदि पुनः प्रत्येक विश्रान्ता स्यात् । तदा तत्सिद्धिरेव न स्यात् वाचकत्वाऽनुपपत्तेरपरिहारादतस्त. त्साधकमेव तत्पर्याप्तत्वसाधकमेवं चानेकव्यक्त्यभिव्यड्ब्येत्यस्यानेकव्यक्तिपर्याप्तेत्यर्थ इति भावः। परीक्षा ति* । *प्रत्येकवर्णेषु । पदान्तर्गततत्तद्वर्णेषु। *वर्णव्यक्तिभिरिति । आनुपूर्वीविशेषावच्छिन्नवर्णव्यक्तिभिरित्यर्थः । श्योगार्थतया*-स्फुटत्यर्थोऽस्मादिति योगार्थतया। एतेन । तत्तत्पदघटकयावद्वर्णाभिव्यङ्गयत्वविशिष्टजातेर्बोधकत्वस्वीका. रेण । *स्फोटस्य-जातिरूपस्य । .. *वर्णस्फोटपक्ष इति । तस्मिन्पक्षे वर्णगतजातेर्बोधकत्वं वक्तव्यम् , तथा चान्त्यवर्णगतजातेरन्त्यवर्णविषयकप्रतीत्यविषयत्वात्तत्तद्वर्ण एव तत्तजातिव्यञ्जक. स्तथा चोक्तदोष इति भावः। *तत्र*-पदवाक्ययोः। *तस्याः*-जातेः, व्यासज्यवृत्तित्वस्य पर्याप्तिसम्बन्धेन सत्वं प्रसिद्धम् । व्यासज्यवृत्तित्वन्तु जातेनास्ति । तस्या व्यासज्यवृत्तिस्वभावत्वात् । *धर्मिग्राहकमानेति । धर्मो जातिरूपः पदार्थः , तदुप्राहकन्तत्साधकं यन्मानम्पदवाक्ययोर्षोधकत्वान्यथानुपपत्तिरूपन्तसिद्धत्वादित्यर्थः । एतेन जाते. समवायसम्बन्धेनैव सत्वन्नतु पर्याप्त्याख्यस

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502