Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 464
________________ जातिस्फोटनिर्णयः। ४३५ तस्मात् सा जातिरेव वाचिका, तादात्म्येनावच्छेदिका चेति ।। ननु सरो रस इत्यादौ तयोर्जात्योः सत्वादर्थभेदबोधो न स्यादित्यत आह-*मोपाधिको वेति* ॥ वा त्वर्थे उपाधिरानुपूर्वी, सैव जातिविशेषाभिव्यक्षिकेति भेदः, कारणीभूतज्ञानस्येति नातिप्रसङ्ग इति भावः । उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह-*वर्णानामिति ॥७॥ ननु जाते. प्रत्येकं वर्णष्वपि सत्त्वात् प्रत्येकादर्थबोधापत्तिः स्यादित्यत आहअनेकव्यक्त्यभिव्यङ्गया जातिःस्फोट इति स्मृता ॥ कश्चित् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥७२॥ . दर्पणः त्वविशिष्टसकलतद्वृत्तित्वरूपतया तत्त्वाऽसम्भवो गौरवादत आह-*तादात्म्येनेति॥ अभेदेनेत्यर्थः । तथाच नोक्तदोष इति भावः। एतत्तत्त्वमभिहितं प्राक् ॥ *जात्योरिति* ॥ तयोः पदयो रेफाकारसकारविसर्गघटितत्वाविशेषाद्रसत्वविशिष्टोपस्थापकतावच्छेदकसरस्त्वविशिष्टोपस्थापकतावच्छेदकजात्योरेकतरस्या एव सत्ताया विनिगमकाभावात्ततो विलक्षणार्थबोधानुपपत्तिरित्यर्थः । वाशब्दस्य पक्षान्तरपरत्वभ्रमं निराकारोति-*वा त्वर्थ इति* ॥ अवधारणे इत्यर्थः ॥ *भेद इति* ॥ तथाच तत्र वर्णतौल्येऽप्यानुपूर्वी वैलक्षण्येन रसत्वविशिष्टोपस्थापकतावच्छेदकजातेनिरुक्ताव्यवहितोत्तरत्वसम्बन्धेनर-विशिष्टसत्त्वादिरूपानुपूर्त्या एव व्यञ्जकतया तदभावेन न सर:-पदाद्रसत्वविशिष्टबोधापत्तिः । एवमप्यत्रापीति भावः। मूले तारमन्दवदित्यत्र तारमन्दशब्दो धर्मपरौ । तथा च यथा वर्णानां नित्यैकत्वमते विजातीयवायुताल्वाद्यभिघातसत्त्वे तारत्वादिना भेदप्रतीतिस्तद्वदित्यर्थः ॥ ७१॥ ___ वर्णजातिस्फोटमभिप्रेत्य शङ्कते, सारे-*नन्विति* ॥ *जातेरिति* ॥ अर्थबोधकजातेरित्यर्थः ॥ *प्रत्येकमिति* ॥ पदान्तर्गततत्तद्वणेष्वित्यर्थः। एवमप्रेऽपि ॥ *अर्थ. परीक्षा वाच्यमिति गौरवमत आह-*तादात्म्येनेति । ____*जात्योरिति । भाक्तयोः पदयोः सकाररेफाकारविसर्गघटितत्वाविशेषेणासरत्वो. पस्थापकतावच्छेदकजातेः सरस्त्वोपस्थापकताच्छेदकताऽपिस्यादेकस्या एकत्रैव सत्त्वमित्यत्र विनिगमकालाभादिति भावः । वा शब्दस्य पक्षान्तरसूचकत्वमिति भ्रमनिरासायाह-*वा त्वर्थ इति । एवञ्चैवकारार्थो वाशब्द इति फलितम् । *आनु. पूर्वीति । एवञ्च स्वाव्यवहितोत्तरत्वसम्बन्धेन रविशिष्टसत्वघटितायाश्च सरस्त्वोपस्थापकतावच्छेदकजातिव्यञ्जकतावच्छेदिका च सर इत्यत्र नास्तीति न सरःशब्दाद्रसत्वोपस्थित्यापत्तिरिति भावः। मूले-*तारमन्दशब्दौर-तारत्वमन्दत्वपरौ। तथा चमीमांसकमते यद्यपि वर्णानान्नित्यैकत्वम् , तथापि विजातीयकर्णवायुसंयोगरूपाभिव्यञ्जकतारतम्येन यथा तारत्वमन्दत्वादिविभिन्नधर्मप्रतीतिसद्भावादित्यर्थः ॥ ७१ ॥ ___ ननु जातेर्वर्णसमुदायवृत्तित्वाद्वर्णसमुदायस्याद्यावयवानतिरेकाज्जातेरव्यासज्यवृत्तित्वस्य स्वभावसिद्धत्वात्प्रत्येकवर्णादर्थबोधापत्तिरित्याशयेन शकते- *नन्वि

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502