Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
अखण्डस्फोटनिर्णयः। इदनीमखण्डपक्षमाह
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ॥ ६८ ॥ वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन ॥
पदे पचतीत्यादौ न वर्णाः। नातो वर्णसमूहः पदमिति शेषः । दृष्टान्तव्याजेनाह-*वर्णेष्विति ॥ एकारौकारलकारऋकारादिवणेववयवाः प्रतीयमाना भपि यथा नेत्यर्थः। क्वचिदित्येव पाठः । एवं वाक्येऽप्याह-*वाक्यादिति ॥ पदानामपि वाक्याद्विवेको= भेदो नास्तीत्यर्थः। अयम्भाव:-वाक्यं पदं चाखण्डमेव, न तु वर्णसमूहः । अनन्तव
दर्पणः
अखण्डस्फोटनिर्णयः। . अखण्डस्फोटनिरूपणेऽवसरस्य सङ्गतित्वं सूचयन्नाह-*इदानीमिति* । सखण्डस्फोटनिरूपणानन्तरमित्यर्थः। *अखण्डेति* । पदवाक्ययोरखण्डत्वं चाविद्यमानावयवकत्वम् । वर्णानामावयवाघटितत्वस्यापि सिषाधयिषितत्वादाह-*दृष्टान्तेति । दृष्टान्तवाक्यस्येवादिघटितत्वनिवेशेन तदभावात् कथं वर्णेष्वित्यादेस्तत्त्वमित्याशङ्कय , यथाशब्दान्तर्भावेण मूलं व्याचष्टे-*यथेति । *इवेतीति । अवयवा इवेत्यर्थः । तथा च यथाश्रुतस्यैव दृष्टान्तत्वं नानुपपन्नमिति । 'विचिर् पृथग्भावे' इति प्रत्युपसृष्टयनन्तभावसाधनप्रविवेकशब्दार्थः पृथग्भावो भेदे पर्य्यवस्यतीत्याशयेनाह-*भेद इति । ___ ननु पदादिप्रतीतौ तदवयवानां वर्णानामुपलभ्यमानत्वात् कथं तदसत्त्वमत आह*अयम्भाव इति ॥ *अखण्डमेवेति ॥ व्याख्यातार्थम् । एवकारव्यवच्छेचं स्पष्टयति-*न त्विति ॥ *अनन्तेति ॥ अनेकेत्यर्थः ॥ ननु 'ककारो, गकार' इति प्रतीतिरेव वर्णकल्पने मानम् । यदि च वर्णाभिव्यञ्जकत्वेनोत्पादकत्वेन वाभिमतवायसंयोगविशेषाभिव्यक्तस्फोटे एव कत्वादिना तादृशप्रतीतिविषय इति विभाव्यते, तदापि 'उत्पन्नः, ककारः नष्टः ककार:' इत्यादिप्रतीत्यनुपपत्तिः । स्फोटाऽतिरिक्तककारादीनां त्वयाऽनभ्युपगमात् । तस्य च नित्यत्वात् । व्यञ्जकनिष्ठाया उत्पत्तेस्तद्विष
परीक्षा अवसरस्य सङ्गतित्वं सूचयन्नाह-*इदानीमिति । अखण्डत्वञ्च-अवयवाघटितत्वम् । वर्णानामप्यवयवशून्यत्वं साधयितुमिष्टमित्याशयेन व्याजपदम् । ननु घटपटादिपदप्रत्यक्षे घटपटादीनामनुभूयमानत्वात्कथं वर्णानामसत्वं प्रतिपादयसीत्यतस्तदुपपादयति-*अयम्भाव इत्यादिना*। *अनन्तेति-अनेकेत्यर्थः । ननु करोति गच्छतीत्यादौ
Loading... Page Navigation 1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502