Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 443
________________ ४१४ दर्पणपरीक्षासहिते भूषणसारे - यस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव । पूर्वपूर्ववर्णानुभवसंस्कारसहकारेणैकदा समूहालम्बनरूपस दर्पण: दिस्फोटस्यैवास्माभिर्वाचकत्वाभ्युपगमादिति भावः । क्रमिकाणामपि स्थायिनां सहावस्थानादुक्तम्-*आशुतरेति ॥ तृतीयक्षणवृत्तिध्वंसप्रतियोगिनामित्यर्थः । आशुतरविनाशिनां सहोत्पन्नानां समुदायसम्भवादुक्तम् -*क्रमवतामिति ॥ *असम्भाव्यमेवे - ति*॥ प्रत्यक्षे तादात्म्येन विषयस्य हेतुतया समूहरूपविषयस्यैवाऽभावादिति भावः ॥ * पूर्वपूर्वेति* ॥ ननु वर्णानित्यतावादिमते तृतीयक्षणवृत्तिध्वंसप्रतियोगिनां तेषां प्रत्यक्षस्यैवासम्भवात् कथं तज्जन्यसंस्कारस्य सहकारितासम्भवः । तथाहि — कादि - प्रतीतिः ककारादौ विशेषणतया कादित्वमवगाहते । विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया ककाराद्युत्पत्तिर्द्वितीयक्षणे निर्विकल्पकमभ्युपेत्य तृतीयक्षणे विशिष्टज्ञानं वाच्यम् । तत्र न सम्भवति । सम्बद्धं वर्तमानं च दृश्यते चक्षुरादिना । इति वृद्धोक्तेः । प्रत्यक्षे विषयस्य कार्य्यसहभावेन हेतुतया तृतीयक्षणे तद्वर्णरूपविषयस्याभावात् । न च ककाराद्युत्पत्तिक्षणोत्पन्नकत्वादिस्मृत्यैव द्वितीयक्षणे एव स विकल्पसम्भव इति वाच्यम् । एवमपि प्राथमिकविशिष्टबुद्धेर्दुरुपपादत्वादितिचेद् ? अत्र वदन्ति । संसारस्यानादितया बालस्य स्तनपानप्रवृत्तिहेत्विष्टसाधनत्वस्मृतेरिव प्राथमिककत्वादिविशिष्टबुद्धिजन कस्मृतेः सम्भवान्न तदनुपपत्तिः । ककाराद्युत्पत्यनन्तरं ककारीयगकारवृत्तिविशिष्टबुद्धेरेव च तादृशकल्पने मानमिति । अन्ये तु प्रतियोगितासम्बन्धेन योग्यविभुविशेषगुणनाशं प्रति स्वसामानाधिकरय स्वाव्यवहितपूर्ववृत्तित्व उभयसम्बन्धेन यदि सामान्यतस्तादृशविशेषगुणस्य कारता स्यात्तदा ककारादिप्रत्यक्षाऽनुपपत्तिः प्रसज्येतापि, सैव न । अन्तिमशब्दपरीक्षा *आशुतरोत्पन्नानामिति । आशुतरोत्पन्नानाम् - तृतीयक्षणवृत्तिध्वंसप्रतियोगिनां तादृशानामप्येकक्षणोत्पन्नानाम्मुरजमृदङ्गवीणादिशब्दानाम्प्रत्यक्षमित्यनुभवसि - द्धत्वादुक्तम् —*क्रमवतामिति । *ज्ञानमसम्भाव्यमेवेति । विषयतासम्बन्धेन प्रत्यक्षम्प्रति तादात्म्यसम्बन्धेन विषयस्य कारणतया विषयस्यैवासत्त्वे प्रत्यक्षासम्भवादिति भावः । परोक्तन्दूषयति-पूर्व पूर्वेति । ननु प्रत्यक्षे विषयस्य कार्य्यसद्भावेन कारणत्वम् । किञ्च विशिष्टबुद्धिम्प्रति विशेषणज्ञानस्य कारणत्वम् । तथा च वर्णोत्पत्तिक्षणे वर्णानाशकत्वादिप्रकारकप्रत्यक्षासम्भवः । द्वितीयक्षणे च कत्वादिनिर्विकल्पकस्य सम्भवः, तृतीयक्षणे वर्णस्यैव नाश इति कथं कत्वादिप्रकारकप्रत्यक्षजन्यसंस्कारसम्भव इति चेद् ? न । तृतीयक्षणे वर्णनाशकता च स्वोत्तरोत्पन्नविशेषगुणस्य प्रतियोगितासम्बन्धेन योग्यविभुर्विशेषगुणतेत्येवं रीत्या कार्य्यकारणभावेन वाच्या, सा न सम्भवति । चरमशब्दनाशासंभवात् । किन्तु नाश्यतावच्छेदकं वैजात्यञ्च रमशब्दवृत्ति कल्पयित्वैव कार्यकारणभावो वाच्यः । एवं च तस्य वैजात्यस्य चरमशब्दवृत्तित्वमपि कल्प्यते, तावतैवेतस्य निर्विकल्पकोत्तरोत्पन्नसविकल्पकविषयत्वसम्भवस्तस्यापशब्दस्य चतुर्थक्षणे नाश इति तादृशप्रत्यक्षान्न

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502