Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 452
________________ अखण्डस्फोटनिर्णयः। ४२३ "भृगुर्वै वारुणिवरुणं ब्रह्म पृष्टवान्। स उवाच अन्नम्" इति । तस्योत्पत्त्यादिकं बुद्धा पृष्टे प्राणमनोविज्ञानाऽऽनन्दात्मकपञ्चकोशोत्तरं "ब्रह्मपुच्छं प्रतिष्ठा" इति शेयं ब्रह्म प्रतिपादितम्। तत्र कोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधनाय । यथा वा आनन्दवल्लीस्थपञ्चकोशव्युत्पादनं वास्तवशुद्धब्रह्मबोधनाय । एवं प्रकृतिप्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युत्पादनायैवेति । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसम्भवान्न शास्त्रे तदुपाय इत्यत आह—*उपाया इति* ॥ उपायस्योपायान्तरादूषक दर्पणः हि, "भृगुः वारुणिवरुणं ब्रह्म पृष्टवान् । स उवाचान्न ब्रह्म" इति तस्योत्पत्त्यादि बुद्ध्वा पुनस्तेन पृष्टः “प्राणो ब्रह्म” इति तस्यापि तथात्त्वं बुद्ध्वा पृष्टो, “मनो ब्रह्म" इति तस्याऽप्यशितमन्नं त्रेधा भवति-“यस्थूलं तत्पुरीषं, यन्मध्यमं तन्मांसम्, यदणीयस्तन्मन" इति श्रवणादनित्यत्वमवधार्य पुनः पृष्टो, “विज्ञानं ब्रह्म' इति । तस्याऽपि वृत्युपहितत्वं ज्ञात्वा पुनः पृष्टेनोपदिष्टम्-"आनन्दो ब्रह्मोति व्यजानात्" । ततो वस्तुतत्त्वं प्राप्य स्थित इति प्रतिपादितम् । ननु नेयं वल्ली पञ्चकोशप्रतिपादिका । पञ्चमस्यानुपपाद्यत्वादकोशत्वाच्च तस्यैव तत्र ब्रह्मत्वात् , इत्याशयानन्दवल्लिस्थपञ्चकोशोदाहरणमाह-*यथा वेति । तत्रत्या हि पञ्चकोशा उपाया एव उपदिष्टपञ्चमानन्दकोषस्यापि वैषयिकतयानित्यत्वेनाब्रह्मत्वात् "ब्रह्म पुच्छं प्रतिष्ठा" इत्यतः श्रूयमाणब्रह्मपदस्यैव मुख्यब्रह्मपरत्वम् । अत एवाऽऽधारार्थकः पुच्छशब्दोऽप्युपपद्यते । तस्य लागुलरूपमुख्यार्थस्य बाधात्। एवञ्चानन्दवल्यां यथा पञ्चकोशाः सर्वाधारब्रह्मबोधनायोपायतयापात्ताः, न तु तेषां वास्तवब्रह्म. त्वम् , तथेहाऽप्यवास्तवप्रकृतिप्रत्ययवाचकत्वव्युत्पादनं वास्तवस्फोटनिष्ठवाचकत्वबोधनायेत्याखण्डलार्थः ॥ *श्रवणादित इति* ॥ आदिना मन आदिपरिग्रहः॥*न शास्त्र परीक्षा पुनस्तेन पृष्टः प्राणो ब्रह्मेति । तस्यापि तथात्वं ज्ञात्वा पुनः पृष्टो मनो ब्रह्मेति । तस्याप्यशितमन्नन्त्रेधा भवति' यत्स्थूलं तस्यापि वृत्त्युपहितत्वं ज्ञात्वा पुनः पृष्टे "आनन्द ब्रोति व्यजानात्। ततो वस्तुतत्वम्प्राप्य स्थित इति । ____ इयम्भृगुवल्लीन पञ्चकोशोदाहरणमत उदाहरणान्तरमाह-*यथावेति । उपदिष्टपदज्वानन्दकोशस्यापि वैषयिकतयाऽनित्यत्वेनाब्रह्मत्वान्मुख्यब्रह्मप्रतिपादनाय 'ब्रह्मपुच्छम्प्रतिष्ठा' इत्युक्तम् । अत्र ब्रह्मपदम्मुख्यब्रह्मपरम्, पुच्छशब्दोपादानात् । अयं हि पुच्छशब्द आधारपरोनतु लागूलपरस्तस्य बाधात् । एवञ्च यथा पञ्चकोशाः सर्वाधारब्रह्मप्रतिपादनायोपादेयतयोपात्ताः, न तु तेषां वास्तवब्रह्मत्वम्, तथेहाप्यवास्तवप्रकृतिप्रत्यययोर्वाचकत्वव्युत्पादन वास्तवस्फोटनिष्ठवाचकत्ववाधनायेति समुदायार्थः । श्रवणादित इति । आदिना मनननिदिध्यासनयोः परिग्रहः । *न शास्त्रं तदुपाय इति ।

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502