Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 453
________________ ४२४ दर्पणपरीक्षासहिते भूषणसारेत्वात् । तथाच व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते । मन्त्रजन्यमिवार्थस्मरणे । वेदान्तजन्यमिव ब्रह्मज्ञाने। तस्य च ज्ञानस्य यज्ञा. दीनामन्तकरणशुद्धाविव शरीरादिशुद्धावुपयोगः साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वञ्च । तदुक्तं वाक्यपदीयेतद्वारमपवर्गस्य वाङ्गलानां चिकित्सितम् । दर्पणः मिति । एतच्छास्त्रं विनापि श्रवणादिना तद्वोधेन व्यभिचारादिति भावः ॥ उपायस्योपायान्तरादूषकत्वे सदृष्टान्तां युक्तिमाह-*तथाचेति* ॥ व्याकरणाध्ययनस्य स्फोटज्ञानत्वं न कार्यतावच्छेदकत्वम्, किन्तु तादृशज्ञानगतवैजात्यं तदवच्छिन्नञ्च नोपायान्तरादिति न व्यभिचारः । वैजात्यस्य प्रागनुपस्थितावपि कारणताग्रहो विधिवादोक्तदिशाऽवसेय इति भावः ॥ *मन्त्रजन्यमिवेति ॥ मन्त्रजन्यतावच्छेदकमिवेत्यर्थः । एवमग्रेऽपि। ___ ननु पुरुषार्थसाधकस्य तस्य सम्पादनवैयर्थ्यमत आह-*तस्य चेति ॥ स्फोटज्ञानस्य चेत्यर्थः ॥ श्यज्ञादीनामिति । कामनापरित्यागेन विधीयमानानां तेषामित्यर्थः । यज्ञादीत्यादिना "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुत्युक्तदानादिपरिग्रहः । शरीरादीत्यादिना वागिन्द्रयपरिग्रहः । ___ ननु शरीरादिशुद्धेरप्यपुरुषार्थतया तदुद्देशेनापि प्रवृत्तिर्दुघटेत्यत आह-*साक्षादिति । स्वर्गादीत्यादिनाऽपवर्गपरिग्रहः। साक्षात्स्वर्गहेतुत्वं परम्परयाऽपवर्गहतुत्वं चेत्यर्थः । स्वर्गहेतुत्वे "चैकः शब्दः" इति भाष्यपठितश्रुतिः, परम्परया मोक्षहेतुत्वे च, "द्वे ब्रह्मणी वेदितव्ये” इति स्मृतिः प्रमाणम् । परम्पराघटकं चात्मतत्त्वज्ञानम् । "तमेव विदित्वा” इति श्रुत्या तदतिरिक्तस्य साक्षान्मोक्षहेतुत्वव्यवच्छेदबोधनादिति बोध्यम् । उक्तार्थे हरिसम्मतिमाह-*तदुक्तमिति । *तत्*--नादात्मकस्फोटप्रतिपादकं शास्त्रम् । *अपवर्गस्येति ॥ मोक्षस्येत्यर्थः । *द्वारमिति ॥ तदुपयोगीत्यर्थः। हेतुगर्भविशेषणमाह-वाङ्मलानामिति* । चिकित्सितमिति। अपनयनाऽर्थकसन्न परीक्षा यत्र श्रवणादिना तज्ज्ञानम्, तत्र व्यभिचारादिति भावः । *कल्प्यत इति । एतेन व्याकरणाध्ययनस्य स्फोटज्ञानत्वमात्रन्न कार्यतावच्छेदकम्, किन्तु तज्ज्ञाननिष्ठवजात्यमेव । तदवच्छिन्नञ्च नोपायान्तरादिति न व्यभिचार इति भावः । जन्यतावच्छे. कवैजात्यकल्पनायान्दृष्टान्तमाह-*मन्त्रजन्यमिव । मन्त्रजन्यतावच्छेदकमिव । एवं वेदान्तजन्येत्यस्याप्यर्थः । तथा च लघुनोपायेन शब्दानाम्प्रतिपत्तौ शास्त्रस्योपयोग इति फलितम् । नन्वेवमपि शास्त्रजन्यस्य स्फोटज्ञानस्य पुरुषार्थासाधनतया तत्सम्पादनस्य वैयर्थ्यमेवेत्यत आह-*तस्य चेति । *यज्ञादीनामिति । एतेन यज्ञादीनां यथा-"तं वेदानुवचनेन ब्राह्मणा विविदिषन्ति, यज्ञेन दानेन तपसाऽनाशकेन" इतिश्रुत्या परम्परया मोक्षसाधनत्वन्तथा शास्त्रजन्यस्यास्य ज्ञानस्यापि परम्परया मोक्षसाधनत्वमिति ध्वनितम् । तत्र हरिसम्मतिमाह-*तदुक्तमिति । तद्वारेति । तत्-व्याक

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502