Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 451
________________ ४२२ दर्पणपरीक्षासहिते भूषणसारे नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः । पदस्थाखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधत्ते पञ्चकोशादिवत्तस्मात् कल्पनैषा समाश्रिता । उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः ॥ ६९॥ 'उपेयप्रतिपत्त्यर्था' इत्यन्तेनान्वयः । अयम्भावः-यथा भृगुवल्यां दर्पणः तस्फोटानङ्गीकारेऽपि नोक्तप्रतीत्यनुपपत्तिः। आनुपूर्व्यवच्छिन्नवर्णानां मालापदार्थत्वेन तत्रानुपूर्वीरूपपदस्याधाराधेयभावसम्भवात् । घटकपालादीनां विजातीयकारणज. न्यत्वेन तद्भेदस्यापलपितुमशक्यत्वेनोक्तातिप्रसङ्गाभावाच्चेति । ____ अन्ये तु-न वर्णानां स्फोटात्मकत्वम् । किन्तु स्फोटस्य वर्णाभिव्यङ्गयत्वमेव । न च प्रत्येकव्यञ्जकत्वपक्षोक्तदोषः प्रयोगान्तर्गतसकलवर्णानां तद्वयञ्जकत्वेऽपि चरमवर्णाभिव्यक्तस्यैव तस्य वाचकत्वोपगमादत एव नाद्यवर्णजाऽभिव्यक्त्युत्तरमर्थबोधः । तस्यैकत्वेऽपि तत्र व्यञ्जकरूपप्रतिबिम्बनात्तद्रूपरूषितस्यैव प्रतीत्या नानात्वेन प्रतीतिरौपाधिकी । एकस्यैव मुखस्य कृपाणदर्पणाद्यभिव्यञ्जकवशार्ध्यवर्तुलत्वादि. प्रतीतिवत् । अत एवाऽभ्युपगमार्थ न तत्र जातिकल्पनापि । वर्णभिन्नव्यञ्जकाऽभा. वाच न कदाचिदपि वर्णराहित्येन तत्प्रतीतिस्तत्प्रतिबिम्बिसमर्पकाश्च संस्कारा एव । ते च येन क्रमेण चित्तस्थास्तेनैव व्यञ्जकरूपरूषितता तस्येत्यभ्युपगमाञ्च, न सरो रसः इत्यनयोरविशेषः । व्यञ्जकरूपरूषितस्यैव तस्यार्थे शक्तिग्रहाच्च, न घटादिपर्य्यायाभिव्यक्तस्फोटे गृहीतशक्तिकस्याप्रसिद्धपदश्रवणेऽर्थबोधापत्तिरत एवेदमेकं पदमिदमेकं वाक्यमिति व्यवहारः स्वरसतः सङ्गच्छत इत्याहुः ॥ ६८॥ ... *एवमिति* । अखण्डस्फोटस्यैव वाचकत्वे इत्यर्थः । अप्रामाण्यप्रसङ्गमेवोपपादयति-*पदस्येति । वाक्यस्याऽप्युपलक्षणमिदम् । *अखण्डत्वादिति । प्रकृतिप्रत्ययविभागशून्यत्वादित्यर्थः । तथाभूतस्यैव वाचकताया भवद्भिरुपपादितत्वादिति भावः । *शास्त्रस्य-व्याकरणात्मकस्य । *प्रकृतिप्रत्ययाभ्यामिति* । ताभ्यां यद *व्युत्पादनं*--शक्तिबोधनं, तन्मात्रप्रयोजनत्वादित्यर्थः। तथाच प्रकृतिप्रत्ययविभागेन पदार्थवाचकत्वबोधकस्यास्य शास्त्रस्य पदस्याऽखण्डत्वेऽप्रामाण्यापत्तिरिति भावः ॥ *उपेयप्रतिपत्त्यथेति* ॥ वचनविपरिणामेन उत्तरत्राऽप्यन्वेति । उपेयस्य बोधनीयस्य प्रतिपत्तये एषा कल्पनाऽऽश्रिता स्वीकृता मुनिनेति शेषः ॥ तत्र दृष्टान्तमाह-*पञ्चकोशादिवदिति । तत्र दृष्टान्तमेव स्फुटयति-*अयम्भाव इति ॥ तत्र परीक्षा *एवमिति । अखण्डस्फोटस्यैव वाचकत्व इत्यर्थः। *शास्त्रस्य-व्याकरणशा स्वस्य । प्रकृतिप्रत्ययाभ्यां व्युत्पादनस्य तत्तदर्थप्रतिपादनतात्पर्यकत्वादिति भावः । *तस्मात्-अखण्डस्फोटस्यैव वाचकत्वात् । 'उपेयप्रतिपत्यर्था' इति लिङ्गवचनविपरि. णामेन समाश्रितेत्यनेनाप्यन्वेतीत्याशयेनाह-*उपेयेति। 'पञ्चकोशादिवद्' इति दृष्टान्तं स्फुटयति-*अयम्भाव इति । अत्र क्वचिभृगुवल्लीप्रघटकमप्युदाहृतम् । तत्र हि"भृगुर्वे वारुणिर्वरुणम्ब्रह्म पृष्टवान् । स उवाचान्नम्ब्रह्मेति । तथोत्पत्यादिकम्बुध्वा

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502