Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४२०
दर्पणपरीक्षासहित भूषणसारेशब्दकौस्तुभे.तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त एव
दर्पणः तदथस्तु यदि स्वतन्त्रा नित्या वर्णाः स्युस्तदा स्यादेव तैः स्फोटाऽन्यथासिद्धिः । किन्तु कत्वादिना प्रतीयमानः स्फोट एव ककारादिवर्ण इत्यभ्युपगमेनोक्तान्यथासि.
यऽसम्भवादत एव नानावर्णकल्पनाप्रयुक्तगौरवशङ्कापि नेति।। ____ ननु कोऽसौ स्फोटो यदनतिरिक्ता वर्णा इति चेद् ? अबाहुः-ईश्वरसिमक्षात्मकमायाबिन्द्वपरपर्यायत्रिगुणात्मकाव्यक्तप्रभवः शब्दब्रह्मापरनामा चेतनाधिष्ठितोऽनभिव्यक्तवर्णविशेषो रवः परादिशब्दैर्व्यवह्नियमाणो नादःस्फोट इत्युच्यते । स च सर्वगतोऽपि पुरुषस्य ज्ञातार्थविवक्षाधीनप्रयत्नाधिष्ठितमूलाधारस्थपवनेनाऽभिव्यक्तः परेति व्यवहियते । नाभिपर्यन्तमागच्छता तेनाऽभिव्यक्तः पश्यन्तीति। पुनर्हृदयमागच्छता तेनाऽभिव्यक्तः पश्यन्तीति । पुनर्हृदयमागच्छता तेनैवाऽभिव्यक्तस्त. तदर्थोल्लेखिज्ञानविषयः परश्रोत्राग्राह्यत्वात् सूक्ष्मो मध्यमा वागिति। वक्त्रा तु कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयते । स एव चाऽऽस्यपर्यन्त. मागच्छता तेन वायुना कण्ठदेशं गत्वा मूर्धानमाहत्य परावृत्त्य तत्तत्स्थानेष्वभिव्यक्तः परश्रोत्रेणाऽपि ग्रहीतुं शक्यो वैखरीति व्यवहियते । उक्ताऽथें प्रमाणं च___"चत्वारि वाक् परिमितानि पदानि। तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा श्रीणि निहिता नेङ्गन्यन्ति । तुरीयं वाचो मनुष्या वदन्ति” इति श्रुतिः ।
बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मकोऽभवत्।
स एव श्रुतिसम्पन्नः शब्दब्रह्मति गीयते ॥ इति पुराणवाक्यं च । भागवतेऽप्येकादशस्कन्धादौ स्फुटोऽयमर्थः। शिक्षायामपि
आत्मा बुद्धया समेत्यान्मनो युङ्क्ते विवक्षया । मनः कायाऽग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूय॑भिहतो वक्त्रमापद्य मारुतः ।
वर्णान् जनयतेइत्यनेन हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरप्रणवरूपः, स एव वाचकः । "ओंकार एव सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना नानारूपा भवति" इति श्रुतेः। सर्वप्राणिहृद्देशस्थत्वाच्च ब्रह्मपदव्यवहार्योऽपीत्यन्यत्र विस्तरः॥
*इति प्रतीतेरिति ॥ अन्यथा वर्णपरम्परारूपमालायास्तत्समूहरूपपदानतिरि
परीक्षा
भ्युपेयते। अत एव नानावर्णकल्पनाप्रयुक्तगौरवस्यापि न मम मतेऽवकाश इति ।
दीक्षितेनोक्तमनुवदति-*शब्दकौस्तुभे त्विति*। *वामालायाम्-वर्णपरम्परायाम् । *इति प्रतीतेरिति । आधाराधेयभावावगाहिप्रतीतेरित्यर्थः । अतिरिक्तस्फो. टानकीकारे वर्णपरम्परारूपमेव पदमित्यभेदे आधाराधेयभावावगाहिप्रतीत्यनुपपत्तिः स्यात् । अन्यथा प्रतीतेविभिन्नपदार्थासाधकत्वे 'कपाले घट' इति प्रतीत्या कपालातिरिक्तस्य घटस्य सिद्धिर्भवति । यदि प्रतातिः साधिका न भवेत् , तदा कपालघटयो दो न सिध्येत, कपालसंयोगरूपस्य कारणस्य कपालसमूहसाधकतयैवोक्तिरिति भावः । अन तुनाऽरुचिर्ध्वनिता । तथाहि-वर्णपरम्परातिरिक्तस्फोटानङ्गीकारेऽप्युक्तप्रतीत्यु
Loading... Page Navigation 1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502