Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 447
________________ ४१८ दर्पणपरीक्षासहिते भूषणसारेघटपदे एव गृहीतशक्तिकस्य कलशार्बोधप्रसङ्गात् । नच तत्पर्यायाभिव्यक्त शक्तिग्रहस्तत्पर्याय श्रवणेऽर्थधीहेतुरिति वाच्यम् । एवं सति प्रतिपर्यायं शक्तिग्रहावश्यम्भावेन तत्तत्पर्यायगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सति शक्तिमहत्वेनैव हेतुत्वे लाघवाच्च । अन्यथा तत्पर्य्यायाभिव्यक्तगतशक्तिग्रहत्वेन तत्त्वे गौरवात् । न द्वितीयः। अनन्तपदानां तेषां शक्ति चापेक्ष्य क्लुप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादिति परिमलोक्तमपास्तम् । पर्यायेष्वनेकशक्तिस्वीका दर्पणः तत्पक्षे दूषणमाह-*घटपद इति। घट इत्यानुपूर्व्यवच्छिन्नस्फोटे गृहीतशक्तिकस्ये. त्यर्थः। कलशपदादित्यस्यागृहीततदवच्छिन्नस्फोटशक्तिकादित्यादिः । *बोधप्रस. ङ्गादिति । घटबोधक्लप्तकारणताककलश इत्यानुपूर्व्यवच्छिन्नस्फोटस्य तदानीं सत्त्वान्नित्यैकरूपत्वात् तस्य वर्णसमुदायरूपपदस्य वाचकत्वे तु नोक्तदोष इति भावः ॥ *अर्थधीहेतुरिति*॥ उक्तस्थलेचाऽस्यास्फोटस्य कलशरूपपव्यताभिव्यक्त्यवच्छिन्नशक्तिग्रहविषयत्वाभावान्न अर्थबोधप्रसङ्ग इति भावः। *एवमिति ॥ तत्पर्य्यायजन्यशाब्दबोधे तत्पर्यायाभिव्यक्त्यवच्छिन्नशक्तिग्रहस्य हेतुत्वाभ्युपगम इत्यर्थः ॥ *शक्तिग्राहावश्यम्भावेनेति ॥ 'नागृहीतविशेषण'न्यायेन तत्पर्य्यायशक्तिग्रहस्यावश्यमभ्युपेयत्वादिति भावः ॥ *उचितत्वादिति ॥ औचित्यमेवाह-*तथा सतीति॥ *शक्तिमहत्वेनेति ॥ तत्पर्य्यायगतशक्तिग्रहत्वेनेत्यर्थः ॥ *लाघवादिति ॥ उक्तरूपाऽपेक्षयैतस्य कारणतावच्छेदकत्वे लाघवादित्यर्थः ॥ *चो-हेतौ । पूर्वकल्पे गौरवं प्रकाशयति-*अन्यथेति ॥ उक्तिवैचित्र्यमेतत् ॥ *न द्वितीय इति ॥ पर्यायस्थले स्फोटनानात्वमित्यपि पक्षो नेत्यर्थः ॥ अनन्तेति ॥ प्रतिपर्यायभिन्नानां स्फोटानां कल्पनामित्यर्थः । *शक्तिमिति । तद्भेदभिन्नानन्तशक्तिकल्पनां चापेक्ष्येत्यर्थः ॥ *लघुत्वादिति ॥ तथाच वर्णातिरिक्तस्फोटकल्पनाऽपार्थेति तद्भावः ॥ *पर्यायेष्विति* ॥ एकधर्मावच्छिन्नबोधकनानापदेष्वित्यर्थः ।। *अनेकेति ॥ पर्यायभेदभिन्नेत्य परीक्षा इति । वाचकत्वाभितोऽखण्डः पदार्थ इत्यर्थः । श्बोधप्रसङ्गादिति । प्राग्गृहीतशक्तिकस्यैव स्फोटस्य तेनाभिव्यक्त्याऽर्थप्रतीतिप्रसङ्गादिति भावः । सामग्रीविशेषस्य कायविशेषनियामकत्वकल्पने नोक्तातिप्रसङ्गवारणं भविष्यतीत्याशयिकामुक्तिन्निरस्यति*न चेत्यादिना । *अवश्यं भावेनेति । तत्तत्पर्यायाभिव्यक्तगतशक्तिग्रहत्वेन कारणत्वावश्यभावे तत्तत्पर्यायगतशक्तिग्रहत्वेनैव कारणत्वमुचितमिति भावः। *लाघवा. चेति । चो हेतौ। *न द्वितीय इति । पर्यायस्थले स्फोटस्य नानात्वमिति पक्षो नेत्यर्थः । *पदार्थानान्तेषाम् । प्रतिपर्यायभिन्नानां स्फोटानाम्। *शक्तिञ्चेति । स्फोटभेदेन भिन्नानन्तशक्तिकल्पनामित्यर्थः । *लघुत्वादिति । एवञ्च वर्णातिरिक्तस्फोटकल्पना मुधैवेति भावः । *पर्यायेष्विति । एकधर्मावच्छिन्नवाचकनानापदेष्वित्यर्थः। शक्ततावच्छेदकभेदेन शक्तिभेदस्यान्याय्यत्वादिति भावः। *अनेकेति। पर्या

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502