Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 446
________________ अखण्डस्फोटनिर्णयः। - एवञ्चाव्यवहितोत्तरत्वसम्बन्धेन घवत्त्वं टकारे गृह्यते । एतादृशपदज्ञानकारणताया अविवादात् । परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञान विषयत्वं वाच्यम् । अत एव घज्ञानानन्तर. टज्ञानविषयत्वरूपानुपूर्वीत्यादिनैयायिकवृद्धानां व्यवहारः । एवञ्च न कश्चिदोषः। एतेन पर्यायस्थलेष्वेक एव स्फोटो, नाना वा ? नाद्यः । दर्पणः स्वीकार इति । तत्तत्संयोगादेव कत्वादिप्रकारकककारप्रतीत्युपपत्तौ स्फोटातिरिक्ततत्कल्पने मानाभावादिति भावः। ननु सरो रस इत्यादावतिप्रसङ्गस्तदवस्थ एव,सत्त्वादिरूपेणाभिव्यञ्जकवायुसंयोगानामुभयत्र तौल्यादत आह-*एवञ्चेति । *घवत्त्वमिति । तथा चौपाधिकभेदमादाय तस्मिन्नेव टकारात्मके घत्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहविषये यथा घटपदव्यवहारविषयता तथा रात्मके स्फोटे सत्त्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहे सर.पदव्यवहारविषयतेति न सरआत्मकस्फोटस्य रसरूपतेति भावः। __ननु तव मते गकारादिवर्णस्य नित्यस्फोटरूपतया नित्यत्वेन तवंसाधिकरणक्षणाऽनुत्पत्तिकत्वविशिष्टतदधिकरणक्षणोत्पत्तिकत्वरूपाऽव्यवहितोत्तरत्वासम्भवात् कथमुक्तप्रकारसम्भवोऽत आह-*परं त्विति । तथाच वर्णानां नित्यत्वेऽपि तदभिव्यक्तरनित्यत्वस्य सांख्यानामपि सम्मतत्वेन तदव्यवहितोत्तरत्वस्य वर्णान्तराभिव्यक्तावबाधेन तदादाय घटादिपदप्रत्ययोपपत्तिरिति भावः। *अत एवेति । अभिव्यक्तिनिरूपिताऽव्यवहितोत्तरत्वस्यानुपूर्वीव्यवहारनियामकत्वादेवेत्यर्थः। नवीनैस्तथानभ्युपगमादाह-वृद्धति*। *एतेनेति । आनुपूर्व्यवच्छिन्नवर्णात्मकस्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः । अपास्तमित्यनेनाऽन्वयि । *स्फोट इति । वाचकत्वेनाऽभिमताखण्डपदार्थ इत्यर्थः। *नाद्य इति । नैक इत्यर्थः । . परीक्षा प्रकारकककारादिविशेष्यकप्रतीतिनिर्वाहात्स्फोटातिरिक्तककारादिकल्पनाभावोऽप्युपपद्यत इत्यर्थः। नन्वेवं सरो रस इत्यत्रोक्तातिप्रसङ्गस्तादवस्थ्यम् । सत्वेन रत्वेन चाभिव्यञ्जकवायुसंयोगानान्तौल्यात् । अतस्तदोषम्परिहर्तुं व्यवस्थामाह-*एवम्चेति । उपाधिभेदाद् धकारटकारयोर्भेदः स्फोटभेदकल्पकस्तत्र घवत्त्वं टकारे यथा कल्प्यते; तथा सर इत्यत्रापि तथैव कल्पनया सत्त्वं रेफे ततः सविशिष्टरत्त्वं विसर्गे गृह्यते; रस इत्यत्र तु वैपरीत्येन ग्रह इति तदर्थविशेषप्रतिपत्युपपत्तिरिति भावः । . ...... ननुभवन्मते स्फोट एव चेद धकारटकाररूपः, तदाद्यध्वंसाधिकरणक्षणानुत्पत्तिकत्वे सति घकाराधिकरणक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वरूपं घकाराव्यवहितोत्तरत्वं टकारे न सम्भवतीति कथं घवत्वं णकार इत्यत आह-*परमिति*। *एवञ्च* । ज्ञानघटितस्याव्यवहितोत्तरत्वस्य निर्वचने च अभिव्यक्तिनिरूपिताव्यवहितोत्तरत्वमेवानुपूर्वीसम्पादकन्तमादायैव शक्ततावच्छेदकस्य तत्तत्स्थले कल्पना कार्यो। ...... *एतेन*-उक्तप्रकारसिद्धानुपूर्व्यवच्छिन्नस्फोटस्यवाचकत्वव्यवस्थापनेन । *स्फोट ५३ द० ५०

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502