Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 450
________________ अखण्डस्फोटनिर्णयः। ४२१ स्फोटः । अन्यथा कपालातिरिक्तघटाद्यसिद्धिप्रसङ्गति प्रतिपादितम् ॥ ६॥ दर्पणः कतयाऽऽधाराधेयभावावगाहिप्रतीत्यनुपपत्तिरिति भावः ॥ *अन्यथेति ॥ प्रतीतेः पदार्थासाधकत्व इत्यर्थः । *कपाले घट इति* ॥ प्रतीत्याभेदावगाहिन्या तसिद्धिः; प्रतीतेस्तदसाधकत्वे तु घटाद्यसिद्धिः स्पष्टैव । कपालतत्संयोगानादायैव तादृशप्रतीत्युपपत्तेरिति भावः ॥ कौस्तुभे विति तुशब्देनाऽरुचिः सूचिता। तद्वीजं तु वर्णातिरि परीक्षा पपत्तिर्भवत्येव । आनुपूर्व्यवच्छिन्नानां वर्णानाम्मालारूपत्वमानुपूर्वीरूपपदस्य च तद्भि. नत्वमित्युक्तस्याधाराधेयभावस्योपपादयितुं शक्यत्वात् , प्रतीतेभेर्दासाधकत्वे कपालघटयो दो न सिद्धयेदितित्ववशिष्यते, तदपि न । कपालस्याल्पपरिमाणवदवयवजन्यत्वम् । घटस्य तु तदधिकपरिमाणवदवयवजन्यत्वमिति, कारणवैजात्याद्वैलक्षण्येन तयो)दस्य सिद्धेरिति । ननु कोऽसौ नित्यः स्फोटो यमाश्रित्योक्तव्यवस्थामुपपादयतीति चेत् ? प्रणवरूपम्ब्रह्मतत्वमेव स्फोट इति गृहाण । तथाहि-ईश्वरस्य सिसृक्षात्मिका या माया चिपाऽपरपर्याया व्यक्तरूपा तत्प्रभवः शब्दब्रह्मापरनामा चेतनेनाधिष्ठितोऽनभिव्यक्तवविशेषो रवपरादिशब्दे व्यवहियमाणे नाद एव स्फोट इत्यभिधीयते । स च यद्यपि सर्वगतः, तथापि पुरुषस्य ज्ञातार्थविवक्षया जायमानप्रयत्नविशेषेण मूलाधारस्य पवनेनाभिव्यक्तः परा इति व्यवतियते । नाभिपर्यन्तमागच्छता तेन पवनेनाभिव्यक्तः पश्यन्तीत्युच्यते। हृदयपर्यन्तमागच्छता तेनैवाभिव्यक्तस्तत्तदाकारज्ञानविषयः परपुरुषश्रोत्रेन्द्रियाग्राह्यत्वात्सूक्ष्म इत्यनेन शब्देनाभिधीयमानो मध्यमावागिति कथ्यते । स एव च वक्रा कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयते । तत आस्यपर्यन्तमागच्छता तेन पवनेन कण्ठदेशङ्गत्वा मूर्द्धानमाहत्य परावृत्य तत्तत्स्थानेष्वभिव्यक्तः परपुरुषेणापि ग्राह्यो वैखरीवागित्यभिधीयते । तत्र भाष्योक्ता श्रुतिः प्रमाणम् - चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहात्रोणि निहितानि नेङ्गायन्ति तत्तुरीयं वाचो मनुष्या वदन्ति" इति ॥ तथा पुराणेऽपि बिन्दोस्तस्माभिन्द्यमानाद्रवो व्यक्तात्मकोऽभवत् । स एव श्रुतिसम्पन्नैः शब्दब्रह्मेति गीयते ॥ इति । शिक्षायामप्युक्तम् आत्मा बुद्धया समेत्यान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । सोदीर्णो मूद्धभिहतो वक्त्रमापद्य मारुतः। वर्णान् जनयत इति।। एवञ्च हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरः प्रणवरूपः स एव वाचकः । "ओंकार एव सर्वा वागेषा स्पर्शीष्मभिर्व्यज्यपाना नानारूपा भवति" इति श्रुतेः । सर्वप्राणिहृदयदेशस्थत्वाच्च ब्रह्मपदव्यवहार्योऽपीति धेयम् ॥ ६८ ॥॥

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502