Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
अखण्डस्फोटनिर्णयः ।
४१३
तथाच वाचकत्वान्यथानुपपत्त्या तदेवेदं पदं, तदेवेदं वाक्यं सोऽयं कार इति प्रतीत्या च स्फोटोऽखण्डः सिद्ध्यति । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवाच्छ्रयमाणवर्णानामेव वाचकत्वमस्त्वित्यपास्तम् । तेषां स्फोटातिरिक्तत्वाभावात् ।
यत्तु - वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समुदा
दर्पणः
योगात्मकत्वेऽतीन्द्रियतापत्तिः । न च सेष्टा, अनुभवविरोधात् । नचोक्तकत्वस्यातीन्द्रियधर्मत्वेन कथं साक्षात्कारविषयत्वमिति वाच्यम् । सुरभिचन्दनमिति प्रतीतौ चक्षुयोग्यस्यापि सौरभादेश्चाक्षुषविषयत्ववत्तस्यापि श्रोत्रग्राह्यत्वसम्भवात् । विषयबाधेन परं स्फोटisशे कत्वमितिप्रतीतेर्भ्रान्तित्वमिति ।
1
अन्ये तु - कादिप्रतीतिर्यदि स्फोटांशे कत्वादिकं समवायेनावगाहेत, तदा तस्याs भ्रान्तत्वसम्भावना, किन्तु स्वाश्रयाऽभिव्यङ्गयत्वसम्बन्धेनैव तदंशे वैजात्यम् । न च स्वाश्रयाऽभिव्यङ्ग्यत्वस्य सम्बन्धत्वे प्रमाणाभावः । कादिप्रतीतेरेव मानत्वात् । विशिष्टप्रतीतिनियामकविशेषो हि सम्बन्धः । अत एव 'लोहितः स्फटिक' इति बुद्धेः स्वाश्रयसंयोगस्य सम्बन्धतामामनन्ति । न च समवायविषयैव सा भ्रान्तिः । यथा-कथञ्चित् तत्प्रतीतेः प्रमात्वोपपत्तौ भ्रमत्वकल्पनाया अन्याय्यत्वात् अधिकमग्रे वक्ष्यत इत्याहुः ।
उपसंहरति-* तथा चेति* ॥ *वाचकत्वाऽनुपपत्त्येति ॥ पदवाक्ययोर्वर्ण समूहरूपत्वे उक्तरीत्या वर्णानां युगपदवस्थानासम्भवेन वाचकत्वग्रहाऽनुपपत्येत्यर्थः । वर्णानामनित्यत्वे प्रत्यभिज्ञाऽनुपपत्तिः साऽप्यस्मन्नये नास्तीत्याह - *तदेवेदमित्यादि* ॥ तद्व्यक्त्यभेदावगाहिपदा विशेष्यकप्रत्यभिज्ञानुपपत्या चेत्यर्थः ॥ उक्तरीत्या कथञ्चिच्छक्तिग्रहोपपादनेऽप्यनित्यवर्णघटितपदवाक्ययोरनित्यतया प्रत्यभिज्ञाऽनुपपत्तिर्दुप
रिहरैवेति भावः ।
*एतेनेति* । प्रत्यभिज्ञानुपपत्ति सिद्धाखण्ड स्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः । *अननुभवादिति* । तथा च तत्रैव प्रमाणाभावेन वाचकत्वं दूरपराहतमिति भावः ॥ *तेषाम्*- गकारादिवर्णानाम् ॥ * स्फोटातिरिक्तेति ॥ गत्वप्रकारकप्रतीतिविषयगा
परीक्षा
*तथा च* । वर्णानामनङ्गीकारे वायुसंयोगानां वाचकत्वे च । *अखण्ड इति । अस्मिन् पक्षे वर्णानामनावश्यकत्वेनाखण्ड इत्यर्थः । स तेन प्रत्यभिज्ञानुपपत्त्या नित्यत्वेन सिद्धस्यारितिक्तस्य स्फोटस्य वाचकत्वव्यवस्थापनेन अननुभवादिति । एतेन स्फोट एव प्रमाणाभावेन तस्य वाचकत्वं दूरत एव निरस्तमिति ध्वनितम् । * तेषाम् । ककारादिवर्णानाम् । कत्वादिप्रकार प्रतीतिविषयकादिस्फोटस्यैवास्माभिर्वाचकत्वस्वीकारादिति भावः ।
कैयटसम्मतं स्फोटसाधनप्रकारन्दूषयितुं तन्मतमुपन्यस्यति-यत्त्विति । वर्णानाम्प्रत्येकं वाचकत्वं समुदाय भावमापन्नानां षेति विकल्प्याद्यं दूषयति-*वर्णानामिति । द्वितीये आह - *समुदायस्येति । क्रमवत्वेऽपि स्थिरत्वे ज्ञानसंभवः स्यादत आह
Loading... Page Navigation 1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502