Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 438
________________ पदवाक्यस्फोटनिय इयमेव मीमांसकानां वेदान्तैकदेशिनां च गतिरित्याह सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः॥ भाडास्तेऽपीत्थमेवाहुर्लक्षणाया ग्रहे गतिम् ॥६७॥ *भाट्टा इति। तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपलक्षणम्। ननूक्तपक्षद्वयमनुपपन्नम् , उत्पत्तेरभिव्यक्तेर्वैकदाऽसम्भवेन उत्पनानामभिव्यक्तानां वर्णसमूहरूपदज्ञानासम्भवात् । तथा च सुतरां तत्समूहरूपवाक्यज्ञानासम्भव इति चेद् ? न । दर्पणः *उपलक्षणमिति* । त्वन्मते, 'गभीरायां नद्यां घोष इत्यादौ प्रत्येकपदशक्त्या स्वशक्यसम्बन्धरूपलक्षणया वोक्तदिशाऽभीप्सितार्थान्वयबोधाऽसम्भवात्, स्वबोध्यसम्बन्धस्य लक्षणत्वाभ्युपगमेन वाक्यार्थमात्रे वाक्यलक्षणाङ्गीकारादिति भावः । *पक्षद्वयमिति। पदवाक्यभेदेन व्यवस्थितं स्फोटद्वयमित्यर्थः। अनुपपत्तिमेवाह*उत्पन्नानामिति । वर्णानित्यतावादिमते वर्णानां योग्यविभुविशेषगुणत्वेन स्वोत्तरोत्पन्नगुणनाश्यत्वादेकदाऽवस्थानासम्भवः । तन्नित्यतावादिमते त्वाह-*अभिव्यक्तानामिति । वर्णा नित्याः, किन्तु तदभिव्यक्तिरेवानित्या। वर्णोत्पादकत्वेनान्याभिमतानामेव कण्ठाद्यभिघातादीनां तदभिव्यञ्जकत्वाभ्युपगमात् । तथाचाभिव्यक्तरेपि योग्यविभुविशेषगुणतया स्वोत्तरोत्पन्नगुणनाश्यत्वाविशेषात् । क्षणिकत्वात्तद्विशिष्टवर्णानामपि युगपदवस्थानासम्भव एवेत्यर्थः। नन्वस्तु वर्णानां युगपदनवस्थानं, किमस्माकमनिष्टमत आह-*वर्णसमूहेति । वाक्यस्फोटकल्पेऽपि तदाह-*तथा चेति । *ज्ञानासम्भव इतीति । आशुविना. परीक्षा ब्दबोध इति। उक्तस्थले 'श्वेतोऽश्वोधावति इति बुद्धिस्त्वनुमितिरूपैवेति बोध्यम् ॥६६॥ ___इयमेव । स्फोटस्वीकाररूपैव । अयम्भावः-तन्मते स्वबोध्यसम्बन्धो लक्षणा। 'देविकायानद्याङ्घोष इत्यादिवाक्यं यत्र प्रयुज्यते तत्र देविकाभिन्ननदीतीरवृत्तिर्घोष इति बोधो भवति । तस्य प्रत्येकपदशक्त्या शक्यसम्बन्धरूपलक्षणया वोपपत्तिर्न स. म्भवति । शब्दस्याशुविनाशितया पदज्ञानस्यवासंभवादिति स्फोटस्य स्वीकार आवश्यक इति । *ये*-भाट्टाः । अविदुरित्यत्रान्वयः । *लक्षणाया इति । वाक्यार्थे वाक्यस्य समुदायात्मकस्य शक्त्यभावात्तद्विषयकबोधोपपत्तये या लक्षणाऽङ्गीक्रियते, तस्या इत्यर्थः। *पक्षद्वयम्-पदवाक्यभेदेन स्फोटद्वयम् । *उत्पत्तेरिति । वर्णानामनित्यत्ववादिमतेनेदम् । तन्मते योग्यविभुर्विशेषगुणानां योगपद्याभावात्स्वोत्तरोत्पन्नगुणनाश्यत्वाच्चैकदावस्थानासम्भवः । वर्णनित्यतावादिमताभिप्रायेणाह-*अभिव्यक्तरिति । तन्मते वर्णा नित्याः, तेषामभिव्यक्तिस्त्वनित्या । सा च वर्णोत्पादकत्वेन पराभिमतायाः कण्ठाद्यवच्छिन्नवायुसंयोगादिघटितासामग्रीतया ज्ञायते । एवञ्चाभिव्यक्तेरपि योग्यविभुर्विशेषगुणात्मकतयोक्तरीत्याऽसम्भव इति । *अभिव्यक्तवर्णसमूहरूपपदज्ञानासम्भवादिति । वर्णा नित्या एवाभिव्यक्तिस्तु ५२ द० प०

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502