Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४०६ दर्पणपरीक्षासहिते भूषणसारे
ननु वाक्यार्थस्यापूर्वत्वात् कथं तत्र शक्ति ह इत्याशङ्कयाह*अर्थ इति* ॥ वाक्यस्येति शेषः। वाक्यस्य वाक्याथै विशिष्य शक्तिग्रहणञ्चेत्तहि पदे एवान्वयांशे शक्तिरिति पक्षेऽपि तद्ग्रहासम्भवस्तुल्य इत्यर्थः। ___ यदि च पदशक्तिः पदार्थाशे ज्ञाता; अन्वयांशे वाऽज्ञातोपयुज्यत इति कुब्जशक्तिवादः, तदा ममापि वाक्यस्य शक्तिरक्षातैवोपयुज्यत
दर्पणः "कृत्तद्धितसमासाश्व" ( पा० सू० १२१४६ ) इत्यत्र समासग्रहणं कृतम् । वाक्यशक्तौ तु तद्वैयर्थ्य स्पष्टमेव । “सामयिकः शब्दादर्थप्रत्ययः" इति कणादोक्तेर्वाक्यशक्तिग्राहकानुशासनादेरभावेन तद्ग्रहाऽसम्भवाच्चेति वाक्यस्फोट आपातरमणीय एवेति । पूर्वोक्तशक्तिग्रहप्रकारस्य शैथिल्यं मनसि निधाय तस्मिन् प्रकारान्तरं वक्तुमग्रिम ग्रन्थ इत्याशयेनाह-नन्विति ॥ *अपूर्वत्वात्*-शाब्दबोधात् प्रागनुपस्थितत्वात् । ___ ननु शाब्दबोधात् पूर्व पदे प्रत्यक्षाद्युपस्थितपदार्थनिरूपितशक्तिग्रहः सुलभ एवेति, पदे सममिति मूलमनुपपन्नमत आशयं प्रकाशयति--*पद एवेति । पदानामेवान्वितपदार्थे शक्तिरन्वयश्व सामान्यरूपेण ज्ञानम् , अत एव घटादिपदादन्वितघटाद्युपस्थि. तौ नियमेन तत्प्रतियोग्याकाङ्क्षा भवति--किमन्वितो घटः किमन्वितं कर्मत्वमित्याद्याकारा । सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वात् । विशेषरूपेण भाने त्वमादिपदसमभिव्याहारो नियामकोऽत एव तस्य शाब्दे भानम् । पदवृत्तिविषयत्वात् । अशक्यस्यापि भानेऽतिप्रसङ्गात् । न चैवं घटमानयेत्यत्रेतरान्वित कर्मत्वमितिरीत्यानेकधा संसर्गस्य भानापत्तिस्तत्तत्पदेभ्यस्तथार्थोपस्थितावप्याकाङ्क्षावशादेकधैव तद्भानसम्भवात् ।
नचाकासायास्तद्भाननियामकत्वावश्यकत्वे तत्र वृत्तिकल्पनाऽपाथेति वाच्यम् , । अशक्यभानभियैव तदभ्युपगमात् । तथाच पदशक्त्यैव संसर्गभानोपपत्तौ तत्र न वाक्यशक्तिः । पदत्वापेक्षया वाक्यस्य गुरुत्वाच्चेति तन्मतम् । तथाचान्विताभिधानमतेऽपि पदे वाक्यार्थशक्तिग्रहासम्भवः समान इत्यर्थः ॥ *ज्ञातेति ॥ पदार्थानां प्रागुपस्थित्या तत्र पदार्थशक्तिग्रहसम्भवादिति भावः । *अज्ञातैवेति । वृत्त्यभ्युप
परीक्षा *अपूर्वत्वात्-शाब्दबोधात्प्रागनुपस्थितत्वात् । इति पक्ष इति । पदानामन्वितपदाथै शक्तिः । अन्वयश्च-सामान्यरूपेणैव भासते । अत एव घटादिपदादन्वितो घट इत्याद्यनुपस्थितौ किमन्वितोऽयमिति विशेषाकाङ्क्षा दृश्यते इति तन्मतम् । वस्तुतस्तन्न युक्तम् । 'घटमानय'इत्यादि वाक्याद् घटकर्मकमानयनमित्याद्याकारको बोध एवनुभवसिद्धो। ननु घटायंशे इतरान्वितत्वस्य भानमिति सम्प्रदायात् ।
परन्तु परस्य मतमाश्रित्य दृष्टान्ततयोपन्यास इति। *ज्ञातेति । पदार्थानाम्प्रागुपस्थितत्वात्तदंशे पदशक्तिज्ञानस्य सम्भवादिति भावः । *कुञ्जशक्तिवाद इति । यथा 'हरिद्रायां नद्यावशेषः' इति वाक्यश्रवणोत्तरन्नदीपदसमभिव्याहाराद्धरिद्वापदस्य नदीविशेषपरत्वनिर्णये तत्सम्बन्धित्वेन पूर्वज्ञाततीरविशेषणप्रत्ययः, तथा संसर्गाशे वाक्य. स्य शक्तिरज्ञातैव तद्भानोपयोगिनीति भावः । *वाक्यस्य शक्तिरिति । वाक्यनिष्ठा
Loading... Page Navigation 1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502