Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४०४ दर्पणपरीक्षासहिते भूषणसारेवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । युक्तं चैतत् । विषयतासम्बन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन हेतुत्वसिद्धः। विवेचितचैतद् भूषणे ।
दर्पणः ननु स्यादेवोक्तप्रकारो यदि वाक्यनिष्ठबोधकतायाः शक्तित्वं सप्रमाणं स्यात् , तदेव तु नेत्यत आह-*युक्तं चैतदिति । एतदू-वाक्यनिष्टबोधकत्वस्य शक्तित्वम् । युक्तिमेवाह-*विषयतेति । शाब्दबोधमात्रे तत्सामान्य इत्यर्थः । *वृत्तिज्ञानस्येति । वृत्तिज्ञानजन्योपस्थितेरित्यर्थः । विषयतासम्बन्धेनेत्यनुषज्ज्यते । * लाघवेनेति । अन्यथा घटपदशक्तिमविदुषस्तत्पदज्ञानवतो घटमानयेति वाक्याद बोधापत्या घटशाब्दबोधे घटार्थकपदवृत्तिज्ञानजन्योपस्थितित्वेन हेतुता वाच्येत्यर्थभेदेनानन्तकार्यकारणभावकल्पने गौरवम् । अस्मन्मते तु विषयतासम्बन्धेन घटवृत्तिज्ञानजन्योपस्थितेरसत्वान्न शाब्दे तस्य भानमित्येक एव कार्यकारणभावः कल्प्यत इति लाघवादित्यर्थः। ___ ननु घट्घटत्वयोर्विशेष्यविशेषणभावे विपरीतव्युत्पन्नस्य घटमानयेत्यतो घटत्वविशिष्टबोधवारणाय घटत्वविशिष्टबोधोपस्थितेर्घटपदवृत्तिज्ञानजन्यघटत्वविशिष्टाया हेतुताया अवश्यवाच्यतया तत एवानतिप्रसङ्गे उक्तकार्यकारणभावे मानाभावोऽत आह-*विवेचितं चैतदिति । पदपदार्थभेदेनानन्तकार्यकारणभावेषु वृत्तिप्रवेशमपेक्ष्य उपस्थितेः पदज्ञानजन्यत्वेनैव शाब्दसामग्रीकुक्षौ प्रवेश उचितः, तथा सति समावाये
परीक्षा ब्दनिष्ठं यज्ज्ञानकारणत्वन्तस्यैवेत्यर्थः । *युक्तमिति । वाक्यनिष्ठबोधकतायाः शक्तित्वकल्पनं युक्तमित्यर्थः । *शाब्दबोधमात्र इति । अत्र मात्रपदकात्स्ने पदजन्ये वा. क्यजन्ये चेत्यर्थः। रामठपदे छिन्नापदे च शक्तिज्ञानवतो 'रामठनीयम्प्रोक्तं छिन्नापुष्टिकरी स्मृता इति वाक्यादबोधात्तच्छून्यस्य चाबोधादन्वयव्यतिरेकाभ्यां तत्तत्पदवृत्ति. ज्ञानस्य कारणत्वमवश्यं वाच्यमिति कार्यकारणभावानन्त्यमिति शाब्दबोधमात्रे वृत्तिज्ञानत्वेन कारणतेत्येकविधयैव कार्यकारणभावः कल्प्यः। विषयतासम्बन्धेनेत्यनेन पदार्थवाक्यार्थनिष्ठो बोधनिष्ठकार्यताया अवच्छेदकसम्बन्धः प्रदर्शितः। *वृत्तिज्ञानस्येति । अस्य स्वविषयवृत्तिनिरूपकत्वङ्कारणतावच्छेदकसम्बन्धत्वम् । वृत्तिज्ञानजन्मोपस्थितेस्तु विषयतैव कारणतावच्छेदकः सम्बन्धः । ___ नचैवमपि यत्किञ्चित्पदशक्तिमानतो घटपदवृत्तिमविदुषो घटपदादू घटत्वविशिष्टविषयकबोधापत्तिरिति विशेषतो घटत्वादिविशिष्टविषयकशाब्दबोधे घटादिपदवृत्तिज्ञानजन्यघटाद्युपस्थितित्वेन कारणतेत्येवंविधः कार्यकारणभावोऽप्यावश्यकः । इति विशेषकार्यकारणभावेनैवोपपत्तौ सामान्यकार्यकारणभावे मानाभाव इति वाच्यम् । कार्याभावे कारणाभावस्य प्रयोजकतायाः क्लृप्तत्वाद्विषयतासम्बन्धावच्छिन्नशाब्दबुद्धित्वावच्छिन्नाभावे विशेषाभावकूटस्य कारणत्वकल्पने गौरवमिति सामान्याभावस्यव प्रयोजकत्वं वाच्यमित्याशयेन सामान्यकार्यकारणभावस्य प्रदर्शनादित्याशयेनाह-विवेचितमिति ।
Loading... Page Navigation 1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502