Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
दर्पणपरीक्षासहिते भूषणसारे -
४०२
बोधात् तत्राप्यावश्यकै शक्तिरिति भावः ।
वस्तुतः पदैः पदार्थबोधवद्वाक्येन वाक्यार्थबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ । अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादौ तादृशव्युत्पत्तिरहितस्यापि बोधप्रसङ्गः । घटमानयेत्यत्रेव पदार्थानामुपस्थितौ,
दर्पणः
यस्य वाचकत्वग्रहेणेत्यर्थः । * बोधात् प्रकृत्यर्थविशिष्टप्रत्ययार्थबोधादित्यर्थः । *त्रापि । सुप्तिङन्तरुपपदेऽपि । शक्तिरिति । तत्कल्पनेत्यर्थः ॥
ननु घटेनेत्यादिमूलेन समयुक्तिकस्फोटद्वयोपादानात् कथं पदस्फोटे साध्ये वाक्यस्फोटस्य दृष्टान्तत्वम् । किञ्च प्रथमं पदस्फोटस्य सिद्धौ तदर्थ सम्बन्धरूपवाक्यार्थाप्रसिद्धया व वाक्यशक्तिकल्पनावसर इत्याद्यपरितोषात् पदस्फोटमेव दृष्टान्तीकृत्य वाक्यशक्ति साधयति - वस्तुत इति । तथाच यत्र पदोपस्थित्या पदशक्तिग्रहसम्भवस्तन पदशक्त्यैव वाक्यार्थबोधो, यत्र तदसम्भवो हरेऽवेत्यादौ तत्रानापत्या वाक्यशक्त्यैव तद्बोध इति । यद्यपि व्यवस्थिताविति पदमहिम्ना पक्षद्वयं व्यवस्थितमिति लभ्यते, तथापि आवश्यकवाक्यस्फोटेनैवोपपत्तौ पदस्फोटकल्पनं नावश्यकमिति सिद्धान्ते वाक्यस्फोट एव पर्य्यवस्यतीति बोध्यम् । वाक्यस्फोटस्यावश्यकतामेव दर्शयति — अन्यथेति । वाक्यशक्त्यनभ्युपगमे इत्यर्थः । तादृशेति । वाक्यार्थबोधजनकत्वरूपवाक्यशक्तिज्ञानरहितस्यापीत्यर्थः । तत्सत्त्वे तु तत्राऽपि बोध इष्ट एवेति भावः । *बोधप्रसङ्गः * । घटकर्मका नयनानुकूलकृतिबोधापत्तिरित्यर्थः । पदवृतिज्ञानजन्य पदार्थोपस्थितेः सत्त्वादिति भावः । *घटमानयेत्यत्रेवेति । अत्र तादृशव्युत्पत्तिरहितस्येत्यनुषज्यते ।
परीक्षा विंशति" इत्यादि सूत्रनिपातितसमुदायस्य सहस्रादिशब्दानाञ्च व्युत्पत्त्या । *शक्तिग्रहेण एकैवेति* । एवकारेण प्रकृतिप्रत्यययोः पृथक् शक्तिव्यवच्छेदः ।
ननु 'घटेन' इत्यादिमूलेन समानयुक्त्या पदस्फोटवाक्यस्फोटयोर्व्यवस्थापनमसङ्गतम्, पदस्फोटासिद्धौ पदार्थ संसर्गरूपवाक्यार्था प्रसिद्धेस्तादृशार्थबोधकत्वं वाक्येन सिध्यतीति कथं वाक्यस्फोटस्य व्यवस्थापनमित्यभिप्रायेण मूलस्य 'घटेन' इत्यादौ पदस्फोटसाधकत्वम्पदस्फोट सिद्धौ तद्दृष्टान्तेन वाक्यस्फोटस्यापि सिद्धिरित्यत्र तात्पय्र्यमित्याशयेनाह - वस्तुत इति । *व्यवस्थिताविति । यत्र हरेऽवेत्यादौ पदविभा
सम्मोहः, तत्रैव वाक्यस्य शक्तिरिति न, किन्त्वसम्मोहस्थलेऽपीति व्यवस्था । *अन्यथेति । एवमनङ्गीकारेऽसम्मोहस्थले पदशक्यैव वाक्यार्थबोधस्वीकार इत्यर्थः । *तादृशव्युत्पत्तिरहितस्य* । वाक्यार्थबोधकत्वरूपवाक्यशक्तिज्ञानरहितस्य । एतेनैता -
समुदायस्य बोधकत्वज्ञानं यस्य भ्रान्तस्य तस्य बोधो भवत्येवेति सूचितम् । प्रामाणिकानान्त्वेतादृशस्थले समुदायशक्तिज्ञानाभावान्न घटकर्मकानयनमिति बोधः । समुदायशक्त्य स्वीकारेऽत्रापि पदार्थोपस्थितिसत्वात्तादृशबोधापत्तिरिति भावः ।
ननु तात्पर्य्यज्ञानरूपसहकारिकारणान्तराभावान्नापत्तिरत आह- *घटमानयेत्यादि ।
Loading... Page Navigation 1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502