Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
पदस्फोटनिर्णयः।
४०१ दायस्याऽऽदेशविधानान्नात्र तद्विभागः सम्भवतीत्यर्थः ॥ ६५ ॥ .. सुप्तिङ्गन्तचयरूपवाक्यस्यापि तदाह
हरेऽवेत्यादि दृष्वा च वाक्यस्फोटं विनिश्चिनु । अर्थे विशिष्य सम्बन्धाग्रहणं चेत् समं पदे॥६६॥ लक्षणादधुना चेत्तत्पदेऽर्थेऽप्यस्तु तत्तथा।
हरेऽव विष्णोऽवेत्यादौ पदयोः “एङः पदा तादति” (पा०सू० ६।१।१४)इत्येकादेशे सति न तद्विभागः सुज्ञानः।तथा च प्रत्येक पदाज्ञानेऽपि समुदायशक्तिवानाच्छाब्दबोधात् समुदायेऽप्यावश्यिकी शक्तिः। एवञ्च प्रकृतिप्रत्ययेषु विशिष्याज्ञायमानेष्वपि समुदायव्युत्पत्त्या
दर्पणः तन्त्रत्वेन तस्य पक्षभिन्नत्वाभावेऽपि न दृष्टान्तत्वमनुपपन्न मिति भावः। *तत्र । वस्नसादिस्थले । विभागः*-तन्निर्णयः । अस्य वैयाकरणानामपीति शेषः । ____ परे तु आमादौ प्रत्ययत्वस्य दृष्टत्वेन वामित्यादावामो न इत्यादेर्वसादेः प्रत्ययत्वमितरांशस्य प्रकृतित्वमनुमातुमशक्यमित्युक्तरीत्या न प्रकृतिप्रत्ययसमुदायरूपपदस्य वाचकत्वसिद्धिः। घटेनेत्यत्र तु नशब्दस्य टादेशत्वं भाष्यकृतैवोक्तमिति न तत्र विभागासिद्धिः । 'अजर्घाः, 'अचकात्' इत्यादौ त्वगत्या "शिष्यमाणं लुप्यमानार्थाभिधायि" इति न्यायात् प्रकृतेरेव वाचकता। अस्तु वा तत्रापि लुप्तप्रत्ययानुसन्धा. नाद् बोधः । प्रकृतेः स्वार्थ विशिष्टप्रत्ययार्थे लक्षणा वा । 'सर्वे सर्वपदादेशा' इत्यपि वर्णानित्यत्ववादिनां मते दुरापास्तमित्याहुः ॥६५॥ __युक्त रैक्यात् क्रमप्राप्तं वाक्यस्फोटनिरूपणमित्याशयेन मूलमवतारयति-*सुप्तिडन्तेति* । *तत्*-वाचकत्वम् । *समुदाय इति । पदसमुदायरूपे वाक्ये इत्यर्थः । *एवमिति । वाक्यशक्तिवदित्यर्थः। विशिष्य* । सूत्रोपात्तरूपेण । अज्ञायमानेवित्यनेन तनिष्टबोधकत्वज्ञानाऽसम्भवः सूच्यते । *समुदायव्युत्पत्त्येति । समुदा
परीक्षा दायस्य-प्रकृतिप्रत्ययसमुदायस्य । तद्विभागइति । प्रकृतिप्रत्यययोः पार्थक्येन निश्चय इत्यर्थः। अन्न प्रक्रियाज्ञानवतां वैयाकरणानामपि न विभागज्ञानम् । "टासि" इति सूत्रेण नादेशस्य भाष्यकारोक्तरीत्या विधानेन प्रकृतिप्रत्ययविभागज्ञानसम्भवाद् घटेनेत्यादावित्यादिपदमुपात्तम् । तेन घट इत्यादिपरिग्रहः । वस्त्रसादौ प्रकृत्यादिकल्पनन्त्वाग्रहमात्रम् ॥ ६५॥
पदस्फोटन्निरूप्य युक्तिसाम्याद्वाक्यस्फोटं निरूपयति-*सुप्तिङन्तचयेति । तद्वाचकत्वे युक्तिसाम्यन्दर्शयति-हरेवेत्यादिना । तद्विभाग:-पदद्वयविभागः । *समुदायशक्तिज्ञानादिति । समुदाये हरेऽवेत्यादिसमुदायस्थ शक्तिः स्वीकार्य्या । . ___*एवमिति* । वाक्यशक्तिवदित्यर्थः । विशिष्यः*-तत्तत्सूत्रप्रवृत्तिक्रमेण । यदि तत्तत्सूत्रप्रवृत्तिज्ञानं स्यात् । तदा प्रकृतिप्रत्यययोर्बोधकतारूपशक्तिज्ञानसम्भवः ल्यात् तथा नास्तीति ध्वननाय ज्ञायमानेत्युक्तम् । *समुदायव्युत्पत्या* । “पक्ति
५१ द० ५०
Loading... Page Navigation 1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502