Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
पदस्फोटनिर्णयः।
३९९ एतच्च, चरमवर्ण एव वाचकत्वशक्तिः, शक्तासज्ज्यवृत्तिस्वे मानाभावात् । पूर्वपूर्ववर्णानुभवजन्यसंस्काराश्चरमेणार्थधीजनने सहकारिण इति न तन्मात्रोच्चारणादर्थधीरिति वर्णस्फोटवादिनां मतान्तरस्य दूषणायोक्तम् । रामोऽस्तीति वक्तव्ये राम इत्यनन्तरं घटिकोत्तरमकारोच्चारणेऽर्थबोधापत्त्या तादृशानुपूर्त्या एव शकरक्त .
.
दर्पणः
इत्यर्थः । नलोपादीत्यादिना जश्त्वादिपरिग्रहः । तथाच समुदितानामेव तेषां वाचकत्वमम्युपेयम् । तत्र चोक्तयुक्त्या तत्समुदायस्य वाचकत्वं निराबाधम् । स एव चाsस्माकं पदशब्दव्यपदेश्य इति भावः। .
ननु प्रत्येकवर्णानां वाचकत्वस्य गौरवपराहतत्वादेवासम्भवात्समुदायस्यैव तत् सेत्स्यतीत्यादेशा वाचकाश्चेति समभिव्याहृतवर्णानां वाचकताया हेतुत्वोपन्यासो विफलः । उन्मत्तप्रलपितत्वशङ्काया अवसरेणैव निरासादित्यत आह-*एतच्चेति । समभिव्याहृतवर्णानां वाचकत्वोपन्यसन चेत्यर्थः । *चरमवर्ण एवेति । पदान्ते श्रूयमाणवर्ण एवेत्यर्थः । एवकारेण पदघटकतत्प्राक्तनवर्णव्युदासः । तत्र हेतुमाह-*शक्तेरिति । स्वरूपसम्बन्धात्मिकायां बोधकारणतायां पर्याप्तत्वासम्भवाच्चरमवर्णादेव बोधोदयेनान्यत्र तत्सत्त्वे मानाभावादिति वाऽर्थः।
ननु तस्यैव वाचकत्वे तन्मात्रश्रवणादर्थबोधापत्तिरत आह-पूर्वपूर्वेति । तत्प. दघटकपूर्ववर्णेत्यर्थः । *मतान्तरेति । तत्समभिव्याहृतवर्णानामवाचकत्वे तत्समुदायरूपपदस्य सुतरामवाचकत्वमिति यन्मतान्तरं तत्खण्डनायेत्यर्थः। उक्तमित्यस्य, मूल इति शेषः । *अर्थबोधापत्येति ॥ वस्तुतस्तु नेयमापत्तिः । उद्बोधकस्य फलानुमेयत्वेन तादृशस्थले फलाभावेनोबुद्धसंस्काराभावादिति बोध्यम् ।
ननु समभिव्याहारो न समूहः । वर्णानां क्रमिकाणामाशुविनाशिनां च तदसम्भवादत एवाव्यवहितोत्तरत्वसम्बन्धेन न पूर्वपूर्ववर्णवत्वम् । पूर्वपूर्ववर्णस्यैवाभावात् । नाऽपि वर्णसमवेतं पदार्थान्तरं, मानाभावात् । अन्यथा तादृशधर्मानुगतीकृतवर्णानां वाचकत्वेनैवोपपत्तौ पदस्फोटस्य निरालम्बनतापत्तेः । पदप्रयुक्तकार्याणां वर्णेष्वेव दर्शनाच्चेति कथं पदस्फोटसिद्धिरित्यत आह-दिगिति। तदर्थस्तु वर्णसमुदायः पदं, न वर्ण इति प्रतीतेर्वर्णातिरिक्तपूर्वापरीभूततत्समुदायात्मकपदस्वीकार आव
. परीक्षा नचैवम्प्रत्येकं वर्णानां वाचकत्वं गौरवादेव निरस्तम्भवति, किमर्थं भवतोक्तमुत्तरत्र समुदायस्य वाचकत्वं साध्यत इत्यत आह-*एतच्चेति समभिव्याहृतवर्णानां वाचकत्वोपन्यसनत्वमित्यर्थः । *चरमवण*। पदचरमावयववणे । एतच्छ्रवणं विनाऽर्थबोधाभावेनान्वयव्यतिरेकाभ्यान्तत्र शक्तिः कल्प्यत इति भावः। :. ननु तर्हि तन्मात्रश्रवणाद्वोधापत्तिरत आह-*पूर्वपूर्वेति* । पूर्वस्मिन्मते दूषणान्तरमाह-*राम इत्यादिना*। एतच्च दूषणं यत्रोद्बोधकसमवधानात्तावतां स्मरणजायते तत्रेति बोध्यम् ।
ननु वर्णानां समभिठ्याहारो न समूहरूपः । वर्णानामाशुविनाशितया तस्यासम्भवात् । अव्यवहितोत्तरत्वसम्बन्धेनैकवर्णविशिष्टापरवर्णत्वमप्यत एव न सम्भवतीति,
Loading... Page Navigation 1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502