Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 427
________________ अथ पदस्फोटनिर्णयः । अथाऽऽदेशा वाचकाश्चेत् पदस्फोटस्ततः स्फुटः॥१४॥ एवमादेशानां वाचकत्वे सिद्ध पदस्फोटोऽपि सिद्ध एवेत्याह*मथेत्यादि* ॥ आदेशास्तिब्विसर्गादयः। अयम्भावः-समभिव्याहृतवर्णानां वाचकत्वे सिद्ध तादशवर्णसमभिव्याहाररूपपदस्य वाचकता सिद्ध्यति । प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वात् । प्रत्येकं वर्णानानामर्थवत्त्वे प्रातिपदिकत्वापत्तौ "नलोपः प्रातिपदिकान्तस्य" (पा० सू० ७।२७) इत्यादिभिर्धनं वनमित्यादौ नलोपाद्यापत्तिश्च ।। दर्पणः अथ पदस्फोटनिर्णयः। पदस्फोटनिरूपण उपजीव्योपजीवकभावल्याऽपि सङ्गतित्वं सूचयन् मूलमवतारयति-*एवमिति । उक्तरीत्येत्यर्थः । आदेशानामपि केषाञ्चित् प्रयोगान्तर्गतत्वादाह-*तिब्विसर्गादय इति । प्रयोगान्तर्गतवर्णानामिति यावत् । ननु यावद्वर्णानां वाचकत्वे, कथं पदस्फोटसिद्धिरतो भावार्थमाह-*अयमिति । समभिव्याहृतं तूक्तार्थम् । सिद्ध इति । आनुपूर्वी विशिष्टतावतां वर्णानामवाचकत्वे आनुपूर्तीरूपपदस्य वाचकत्वाशा दुराशेति भावः। ___ ननु समुदायस्य प्रत्येकानतिरिक्तत्वेन वाचकतायाः प्रत्येकवणे विश्रामो वाच्यः, तथाच कथं समुदिततादृशवर्णरूपपदस्य वाचकतेत्यतः प्रत्येकवर्णवाचकतां निरस्यति*प्रतिवर्णमिति* । *अनुभवविरुद्धत्वादिति । घटशब्दादमुमर्थे प्रत्येमीत्येव प्रतीतेरित्यर्थः । बाधकान्तरमप्याह-*प्रत्येकमिति । *अर्थवत्त्व इति । तदभ्युपगम - परीक्षा अथ पदवाक्यस्फोट निरूपणम् । वर्णस्फोटनिरूपणपदस्फोटनिरूपणयोरुपजीव्योपजीवकभावसङ्गतिरिति सूचयन्नाह-*एवमिति । पूर्वोक्तरीत्या वर्णस्फोटसाधनाय प्रवृत्या वराटिकान्वेषणाय प्रवृत्तिश्चिन्तामणि लब्धवानिति वा शिष्टोक्ता जाणफन्यायेन पदस्फोटस्य सिद्धिरिति भावः। प्रयोगानन्तानामादेशानान्निरासायाह-*तिबित्यादि । *तादृशवणेति । आनुपूर्वीविशिष्टवणेत्यर्थः। ननु समुदायस्य वाचकत्वे तस्याऽवयवानतिरिक्तत्वात्प्रत्येक वर्णानां वाचकत्वमा स्त्वित्यत आह-*प्रतिवर्णमिति । *अनुभवविरुद्धत्वादिति । कलशशब्दादमुमर्थ प्रत्येमीत्येवानुभवोऽस्तीति भावः। प्रत्येक वाचकत्वे दोषान्तरमप्याह-*प्रत्येक मिति । *अर्थवत्त्वे । अर्थवत्त्वस्यापत्या। तथा च समुदितानामेव वाचकत्वमुपेय मिति भावः।

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502