Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 425
________________ ३९६ दर्पणपरीक्षासहिते भूषणसारे - अपि च लकारस्यैव वाचकत्वे कृत्तिङोः कर्तृभावनावाचकत्वव्यवस्था त्वत्सिद्धान्त सिद्धा न स्यादित्याशयेनाह -*किञ्चेति* ॥ आदेशानां वाचकत्वे च तिङ्त्वेन भावनायां, शानचादिना कर्तरि शक्तिरित्युपपद्यते विभाग इति भावः । न च शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इत्यस्तु, "कर्त्तरि कृत्" ( पा० सू० ३।४।६७ ) इत्यनुशासनादिति शङ्कम् । स्थान्यर्थेन निराकाङ्क्षतया शानजादौ कर्तरीत्यस्याप्रवृत्तेः । अन्यथा घञादावपि प्रवर्त्तत ॥ ६२ ॥ 'देवदत्तः पचमान' इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कर्ता वाच्यः स्यादित्याशङ्कयाह तरबाद्यन्ततिङ्क्ष्वस्ति नामता कृत्स्विव स्फुटा ॥ ६३॥ नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधार्य्यताम् । दर्पणः रस्य वाचकत्वे त्वनुशासनस्यैव मानत्वादित्यपरितोषान्मूलमवतारयति-अपिचेति* ॥ *न स्यादिति ॥ स्थानिनो लकारस्योभयत्रैक्यादिति भावः । hotoकन तु नेयमापत्तिः । तैः प्रयोगान्तर्गततिबादीनामेव वाचकताया अभ्युपगमात् । धातुप्रत्ययलोपस्थले तत्तदर्थबोधोपपादनं तूभयोः समप्रयत्नकत्वमित्यवधेयम् । *इत्यस्त्विति* ॥ तथाच तदुभयशक्त्यैव कर्त्तृलाभः । कृत्याश्रयस्यैव कर्तृस्वादिति भावः ॥ *अन्यथेति । अनाकानेऽपि शास्त्रप्रवृत्तावित्यर्थः । शक्ततावच्छेदकभेदस्य तत्रापि सत्त्वादिति भावः ॥ ६२३ ॥ *सामानाधिकरण्यानुरोधादिति । शानचः कृतिवाचकत्वे सर्वानुभवसिद्धाभेदापरीक्षा नच 'तद्धेतु न्यायत' इत्यनुपपन्नम् । समुदायस्य शाब्दबोधजनकत्वे सहायत्वेऽपि पदार्थस्मारकत्वरूपबोधजनकत्वग्रहे सहकारित्वादित्यत आह- *अपि चेति । *कृत्तिङोरिति । अस्य यथासङ्ख्यमन्वयो न स्यात्, स्थानिनो लकारस्यैकत्वेन भेदसिद्धेरिति शेषः । इदम्प्रयोगान्तर्गतवर्णानां वाचकत्वव्यवस्थापनम्प्राचीननैयाविकान् प्रति, नव्यैस्तु तिवादिष्वेव वाचकत्वस्य स्वीकारात् । यत्र धातोः प्रत्ययस्य ar लोपः, तत्रार्थबोधजननोपायस्तुभाभ्यामपि समान इत्यवधेयम् । *इत्यस्विति* । कृत्याश्रयस्यैव कर्त्तृपदार्थत्वादिति भावः । *अन्यथा* - अर्थाकाङ्क्षाभावेऽपि शास्त्रप्रवृत्तौ । *प्रवर्त्तेतेति* तथाच यत्रार्थाकाङ्क्षा तत्रार्थव्यवस्थापकशास्त्रप्रवृत्तिभवतापि वाच्येति भावः ॥ ६२३ ॥ मन्मते साधकान्तरमस्तीत्याह--देवदत्त इत्यादिना * । नचैवं शनशानचो र्लादेशत्वकल्पनमनर्थकम् । तृजादिवत्प्रत्ययान्तरत्वस्यैव स्वीकर्तुमुचितत्वादिति वाच्यम् । धात्वर्थे वर्त्तमानत्वस्यान्वयबोधजननस्य तत्फलत्वात् । *तरबाद्यन्तेति* कृत्स्विव तरबाद्यन्ततिक्षु नामता स्फुटाऽस्तीत्यन्वयः । तिङन्त प्रकृतिकतरबन्तेषु

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502