Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
३९७
ना
स्फ़ोटनिर्णयः। पचतितरां मैत्रः, पचतिकल्पं मैत्र इत्यादिषु नानार्थत्वाभेदान्वययोः सम्भव एवेति कर्तृवाचकता स्यादिति भावः । न च 'पचतिकल्पम्' इत्यत्र सामानाधिकरण्याऽनुरोधात् कर्तरि लक्षणा, 'पचमान' इत्यत्राप्यापत्तरिति । "लः कर्मणि" इत्यनुशासनश्च लाघवात् कल्पिते लकारे कादिवाचित्वं कल्पितमादायेत्युक्तम् ॥ ६३ ॥
__ इति वर्णस्फोटनिरूपणम् ।
दर्पणः न्वयबाधानुपपत्तेरित्यर्थः । लडादेशत्वबोधनफलं धात्वर्थवर्तमानत्वप्रतीतिरेवेति बोध्यम् । *पचतिकल्पमिति । इदञ्च स्वाद्यन्तं नामेति मतमनुसृत्य । 'सत्त्वप्रधा. नानि नामानि' इतिनिरुक्ताद् द्रव्यविशेष्यकबोधजनकत्वं नामत्वम् । तदेव च 'नामा. र्थयोः' इति व्युत्पत्तिघटकम् । अत एव निपातार्थस्य भेदाऽन्वय इति मतेनेदं दूषणमिति तु परे । लक्षणेत्यस्य लस्येति शेषः। ___ *आपत्तेरिति । नच सा तवेष्टेति भावः । नन्वादेशानां वाचकत्वे आदेशिशक्तिप्रतिपादक "लः कर्मणि" इत्यादिसूत्राणां वैयर्थ्यमत आह-*लः कर्मणीति*। *उक्तमिति* । आख्यातशक्तिनिरूपणावसर इति शेषः । एवञ्च प्रयोगे श्रूयमाणप्रकृतिप्रत्ययघटकवणेषु शक्तिवर्णस्फोटमिति पर्यवसन्नम् ॥ ६३३ ॥
इति भूषणसारदर्पणे वर्णस्फोटनिरूपणम् ॥ १३ ॥ ___- 000000 --
__ परीक्षा पचतितरामित्यादिषु नामत्वमस्तीति पचतितरान्देवदत्त इत्यादिषु सामानाधिकरण्यानुरोधात्कर्तुस्तिवाच्यत्वमस्तु, कृत्प्रत्ययस्थले नामार्थयोरभेदान्वय इति नियमानुरोधो भवताकर्तुच्यत्वमिति चेत्पचतितरान्देवदत्त इत्यादावपि तस्यानुरोधस्तुल्य इत्यर्थः। इदं सुबन्तन्नामेति मतेन । यदि तु 'सत्त्वप्रधानन्नाम' इति 'चत्वारि पदजातानि नामाख्यातोपसर्गनिपातः' इति उक्तवाक्ये उपसर्गनिपातयोः पृथगुपादाने नाश्रीयेते तदा नायन्दोष इत्यवधेयम् । - अथवा-तरबाद्यन्तेत्यादिना कर्तुरादेशवाच्यत्वसाधिका भवदुक्तिः, सा न युक्ता। लकारस्य कर्तरि लक्षणव्यापिसामानाधिकरण्यस्योपपत्तिरिति कस्यचिच्छङ्कानिरस्यति-*नचेत्यादिना । नन्वादेशानामेव वाचकत्वे "लः कर्मणि" इति सूत्रविरोध इत्यत आह-*ल:कर्मणीति*। *उक्तमिति । आदेशिशक्तिनिरूपणावसर इति शेषः । एवञ्च प्रयोगे श्रूयमाणेषु प्रकृतिप्रत्ययेषु वर्णसमुदायरूपेषु शक्तिासज्यवृत्तिरिति वर्णस्फोटपक्षः सिद्धः ॥ ६३३ ॥
इति वर्णस्फोटविवरणम् ।
Loading... Page Navigation 1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502