Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
स्फोटनिर्णयः ।
३९५ समभिव्याहारोऽपि कारणमिति चेत् , तावश्यकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः । अन्यथा लकारस्य वाचकत्वं समभिव्याहारस्य कारणत्वञ्चत्युभयं कल्प्यमिति गौरवं स्यात् ।
तथाच तादृशसमभिव्याहारः, समभिव्याहृता. वर्णा वेत्यत्र विनिगमनाविरहात् प्रयोगान्तर्गता वर्णा वाचका इति सिद्ध्यतीतिभावः।
दर्पणः
तबोधे इत्यर्थः ॥ *समभिव्याहार इति* ॥ पूर्वापरीभावापन्नवर्णसमुदाय इत्यर्थः । आवश्यकत्वात्तं विनालकारेणापि बोधाजननेनोक्तसमभिव्याहारस्यापेक्षणादित्यर्थः ॥ *वाचकत्वशक्तिरिति* ॥ आर्थबोधकत्वरूपा शक्तिरित्यर्थः । तथाचाप्राप्तकालता वर्णस्फोटोपयोगित्वान्न स्यादिति भावः। वाचकत्वानभ्युपगमे आदेशिशक्तिवादिमते गौरवं प्रदर्शयति-*अन्यथेति । उक्तसमभिव्याहारस्य वाचकतानभ्युपगमे इत्यर्थः।
नन्वेतावता समभिव्याहारस्य वाचकत्वमायातं, न प्रयोगान्तर्गतधातुप्रत्ययघटकानां वर्णानामत आह-*तथाचेति ॥ *विनिगमनाविरहादिति ॥ न च वर्णानां बाहुल्यमेव विनिगमकम् । उक्तानुपूर्व्यास्तदनुगमकत्वात् । किञ्च समभिव्याहारस्य वाचकत्वे तत्घटकनानावर्णानामवच्छेदकतायां गौरवम् । वर्णानां वाचकत्वे तूक्तामुपूर्व्या एकस्या एव तत्त्वमिति लाघवस्यैव विनिगमकत्वमिति भावः। ---- - ननु प्रयोगान्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन वाचकत्वसिद्धौ प्रकृतायांवाचकत्वा. भावसाधनाय भू+ल् इत्यतो भवनक्रियाकर्तृबोधापादनमनुचितम् । तादृशलकारस्य प्रयोगान्तर्गतवर्णास्मारितत्वात्। तथाच नोक्तयुक्तिः समभिव्याहारस्य वाचकत्वसाधिका। नाप्यत्र तीतुन्यायावकाशः। समभिव्याहारस्य लवाचकताग्रहोपयोगितया शाब्दबोधे हेतुत्वेऽपि तद्वाचकतायां मानाभावेन तेन तदन्यथासिद्धयसम्भवात् । लका
___ परीक्षा अस्यादेरिति शेषः। *समभिव्याहारः* । पूर्वापरीभावापन्नपरिनिष्ठितसमुदायघटकया. वद्वर्णोच्चारणम् । नच 'भूल' इत्यादिभ्यो न बोधापत्तिरसाधुत्वज्ञानस्य प्रतिबन्धक त्वादिति, अपभ्रंशादपि बोधस्य दर्शनेन तस्याप्रतिबन्धकत्वात् । आवश्यकत्वा. दिति । तादृशसमभिव्याहारज्ञानं विना केवललकारेण बोधादर्शनेन समभिन्याहारज्ञानस्य कारणताया आवश्यकत्वादित्यर्थः । *समभिव्याहारस्येति । एवकारेण लकारस्य व्यवच्छेदः। *वाचकत्वशक्ति:-अर्थबोधजनकत्वरूपशक्तिः । सिध्यतीति शेषः। *अन्यथा-उभयोरप्यर्थबोधजनने सहायत्वे । *प्रयोगान्तार्गतवर्णा इति ।
नचादौ वाक्यस्फोटस्य वाचकत्वमुक्तमिदानीम्प्रयोगान्तर्गतवर्णानान्तत्साध्यते; इत्यप्रकृतमिति वाच्यम् । वक्ष्यमाणवर्णस्फोटोपयोगित्वात्। अत्र प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वम् इति नियमोऽपि साधको दृष्टव्यः । नच प्रत्येकापर्याप्तस्य द्वित्वस्य समुदायपर्याप्तत्वदर्शनेनोक्तनियमो व्यभिचरित इति वाच्यम् । तस्यापि समवायेन प्रत्येकवृत्तित्वाभ्युपगमात् । अत एव स्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वरूपव्यासज्यवृत्तित्वस्य सिद्धिः। न च प्रयोगान्तर्गतवर्णानां वाचकत्वे तेषां बहुत्वा. दूगौरवमिति वाच्यम् । आनुपूर्यास्तदनुगमकत्वादिति ।
Loading... Page Navigation 1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502