Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
स्फोटनिर्णयः ।
३९३ वाचकत्वम् । न च तेषां तिक्षु शक्तिभ्रमाद् बोधः । तस्य भ्रमत्वे मानाभावात् । आदेशिनामपि तत्तद्वैयाकरणैः स्वेच्छया भिन्नानामभ्युपगमात् , कः शक्तः को नेति व्यवस्थानापत्तेश्च ।
सर्वेषां शक्तत्वे गौरवं, व्यभिचारश्चास्त्येव । मादेशानां प्रयोगान्तर्गततया नियतत्वाद् युक्तं तेषां शक्तत्वम् । तथाचाऽऽदेशिस्मरण.
दर्पणः रोधादिति । प्रमाणेन पदार्थनिर्धारणं व्यवस्था तदन्यथानुपपत्तेरित्यर्थः । *शक्तिभ्रमादिति । लत्वावच्छिन्ननिष्ठवाचकत्वस्य तत्रारोपादित्यर्थः । *मानाभावादिति । विषयबाधस्यैव भ्रमत्वे तन्त्रतया प्रकृते बोधकत्वशक्तेस्तनाबाधादिति भावः । । नन्वादेशानां बहुत्वमेव तत्र शक्तिस्वीकारे बाधकमत आह-*आदेशिनामपी. ति* । *वैयाकरणैः । शाकटायनप्रभृतिभिः । *व्यवस्थेति । इदमेव वाचकमिति निर्धारणाऽनुपपत्तेरित्यर्थः। अनुशासनस्य सर्वत्रापि सत्त्वादिति भावः । सर्वेषामित्यस्य विनिगमकाभावादित्यादिः । ननु तथाप्यादेशापेक्षयाऽऽदेशिनामल्पत्वेन तत्प्र. युक्तालाघवादादेशिष्वेव वाचकत्वं सेत्स्यतीत्यत आह-*व्यभिचारश्चेति । ननु विनिगमनाविरहादेवादेशिनां वाचकतासिद्धिरत आह-*आदेशानामिति । तथाच गौरवादिदोषस्य तत्परिहारस्य चोभयोः साम्येऽप्यादेशिस्मरणकल्पनाविरहप्रयुक्तलाघवसहकृतप्रयोगनैयत्यमेवादेशानां वाचकत्वे विनिगमकमित्यखण्डलार्थः। ___ ननु बोधकतायाः शक्तित्व एव भवदुक्तव्यवस्थोपपत्तिः । न च बोधकत्वस्य शकित्वं तन्मतसिद्धं, किन्तु सङ्केतस्य पदार्थान्तरस्य वा तत्त्वम् । तथाचानुशासनेन यत्र सा प्रतिपाद्यते तत्रैव तदङ्गीकारेण कथं तिबादिषु तत्सिद्धिः। स्मरणकल्पनागौरवं तु प्रामाणिकत्वादपि न दुष्टमित्यस्वरसात् प्रयोगे श्रूयमाणानां तिबादीनां वाचकत्वे सा.
परीक्षा लत्वावच्छिन्नस्य, *तेषाम्*-अवैयाकरणानाम् । *शक्तिभ्रमादिति। बोधकत्वरूप. शक्तरारोपादित्यर्थः । *मानाभावादिति । बोधकत्वरूपायाः शर्वाधाभावादिति भावः । लकारस्यैव कर्मत्वादौ विधानं यदि सर्वव्याकरणे प्रासद्धन्तदा भवदुक्त सम्भवः स्यात् , तदेव तु न । ललिडितिवत्ककिडित्यादिरीत्या विधानेऽपि प्रयोगो. पपत्तेरित्याशयेनाह-*आदेशिनामपीति | *वैयाकरणैः-शाकटायनादिभिः । *व्यवस्थानापत्तेश्चेति । इदमेव वाचकमिति निर्णयानुपपत्तेरित्यर्थः । अनुशासनानुरोधो हि भवताम्बलम्, तत्त्वनुशासन सम्भवतीति भावः। ___ नन्वस्तु विनिगमनविरहात्सर्वेषां वाचकत्वमत आह-*सर्वेषामिति । नन्वादेशापेक्षया आदिशिनामल्पत्वमेवेत्याशङ्कायामाह-व्यभिचार इति* । लत्वावच्छिन्न. ज्ञानाद्यनार्थोपस्थितिस्तत्र तिब्त्वावच्छिन्नज्ञानस्य ततः पूर्ववर्तिस्वाभावेन व्यमि. चार इत्यर्थः । स्वमतस्योपपत्तिमाह-*आदेशानामिति । यद्यप्यादेशिनामादेशापेक्षया आधिक्यागौरवम् । एवम्प्रत्येकज्ञानस्य कारणतायां व्यभिचारश्च । अस्मन्मतेऽपि तथादेशिस्मरणकल्पना नेति लाघवसहकृतप्रयोगनियतत्वमस्माकं विनिगमकम् । व्यभिचारवारणन्त्वव्यवहितोत्तरत्वसम्बन्धेन कारणवैशिष्टयस्य कार्यता
-०८०प०
Loading... Page Navigation 1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502