Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 421
________________ ३९२ दर्पणपरीक्षासहिते भूषणसारेअव्यभिचाराश्च । आदेशानां भिन्नतया परस्परव्यभिचरितत्वात् । "लः कर्मणि" इत्याद्यनुशासनानुगुण्याञ्च । न ह्यादेशेष्वर्थवत्ताबोधकमनुशासनमुपलभामहे इत्याहुः । तान् स्वसाधकयुक्तिभिर्निराचष्टे व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा ॥ किश्चाख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि ॥ ६२॥ कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ।। व्यवस्थानुरोधात् प्रयोगान्तर्गता एव वाचकाः, न तु तैस्तत्स्मृ. ता इत्यर्थः । तथाहि-पचतीत्यादौ लकारमविदुषो बोधान्न तस्य दर्पण: तस्य शक्तत्वाऽवच्छेदकत्वासम्भवाच्च तिप्तस्त्वादिकमेव तदवच्छेदकमित्याहुः । तथाचोक्तविप्रतिपत्तौ प्राचीनैः सह विवाद एवेति बोध्यम् । *अव्यभिचाराच्चेति । लत्वावच्छिन्नशक्तिग्रहस्य कृतिबोधात् पूर्व नियमेन सत्त्वात् , तिप्त्वादीनां शक्यतावच्छेदकत्वे तु तदवच्छिन्नशक्तिग्रहं विनाऽपि तसादिशक्तिग्रहवत् कृतिबोधेनाऽऽदेशवाचकतावादिमते व्यभिचारो दुरि इति भावः। ननु कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशान्नेयमापत्तिरत आह-*ल: कर्मणीतीति । *इत्याहुरिति । तथाचादेशानामेव वाचकत्वं सप्रमाणमिति तद्भावः। *स्वसाधकेति । स्वमतपरिपोषकेत्यर्थः । व्यवस्थितरित्यादिपञ्चम्यन्तत्रयस्य पूर्वकारिकास्थबोधकपदार्थेऽन्वयं प्रदर्शयन्नादौ व्यवस्थितेरित्येतद्विवृणोति-*व्यवस्थानु. परीक्षा देशा एव वाचका इति भवत्सम्मतम्-तथा च प्रकृते आदेशानामश्रवणेनार्थबोधो न स्यादिति भावः। यद्यप्येधाञ्चक्र इत्यादावप्रयुज्यमानानामादेशानां सम्भवति तथापि ब्रह्मत्यादावसम्भव एवेत्याशयेन द्वितीयोपादानम्। आदिना "अतो हेः” इति लुग्विषये भवेदित्यादेरजर्घा इत्यादेश्वोपग्रहः लुगादेरित्यादिना लोपस्य संग्रहः। *तैः = आदेशैः । - ननु लकारस्य वाचकत्वेप्युक्तरीत्याऽनुपपत्तिरेवातआह-*लत्वस्येति । जातिरूपतयेति*-लत्वेऽनुगतप्रतीत्या तस्य सिद्धिरित्याशयः। *अव्यभिचारादिति । लिट्त्वादीनां शक्ततावच्छेदकत्वे स्वावच्छिन्नज्ञानाद्यनार्थोपस्थितिस्तत्रार्थोपस्थितेः प्रकृतित्वावच्छिन्नज्ञानाभावाद्वयभिचारः। एवमन्यत्रापि बोध्यम् । लत्वस्य शक्ततावच्छेदकत्वम्पाणिनिसम्मतमपीत्याह-*लः कर्मणीति* । नच लत्वस्य लवणादिशब्दघटकलकारेऽपि सत्वेनातिप्रक्तत्वमिति वाच्यम् । लट्त्वाधन्यतमत्वसामानाधिकरण्यविशिष्टलत्वं शक्ततावच्छेदकमित्यभिमानात् । *स्वसाधके. ति । स्वमतनिर्दुष्टसाधकेत्यर्थः । *व्यवस्थितेरिति । पञ्चम्यन्तन्तत्र यस्य हेतुसूचकस्य पूर्वकारिकाप्रतिपाद्यसाध्यसाधकत्वन्तत्रैवान्वयो बोध्यः । एतद्विवरणेन दर्शयति-*व्यवस्थानुरोधादित्यादिना । प्रमाणेन वस्तुतस्त्वस्य निर्धारणं व्यवस्था, तस्यास्साधकयुक्तिमित्यर्थः । *अविदुष इति*-अवैयाकरणस्येति शेषः ।, *तल्य* AHANI

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502