Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
३९० दर्पणपरीक्षासहिते भूषणसारेशब्द इति । साधुशब्दान्तर्गता वाचका न वेति विप्रतिपत्तिः। विधिकोटिरन्येषां, नेति धैयाकरणानाम् । साधुशब्दे 'पचति' 'राम' इत्यादिप्रयुज्यमानेऽन्तर्गतास्तिब्विसर्गादय एव; बोधकाः-वाचकाः। तेषामेव शक्तत्वस्य प्राग्व्यवस्थापितत्वात् । नतु तैः स्मृता -लादय
दर्पणः विप्रतिपत्तित्वाऽसम्भवः । नैयायिकैरपि साध्वन्तर्गतानां केषाञ्चिद् वाचकत्वाभ्युपगमात् । तादृशवर्णत्वावच्छेदेन वाचकत्वादिसाधने तु वैयाकरणानां परेषां विकरणेषु बाधश्चेत्याह-*तत्स्मृता इति ।
ननु यथाश्रुते साधुशब्दान्तर्गता वाचकास्तदन्तर्गतवर्णस्मारिता नेत्यर्थलाभादेतद्वा. क्यस्य विभिन्नधर्मिबोधकत्वाद्विप्रतिपत्तित्वस्यैवासम्भवः। एकधर्मिकविरुद्धकोटिकसंशयजनकस्यैव तत्त्वादतो व्याचष्टे सारे-*साधुशब्दान्तर्गता इति । साध्वन्तर्गतवर्णस्मारिता इत्यर्थः । यथाश्रुते साध्वनन्तर्गतविपरीतानां पूर्वोक्तवर्णानां वाचकत्वस्य के. नाप्यनभ्युपगमाद् बाधसिद्धसाधनयोरापत्तेः। तत्स्मारितत्वं च शास्त्रबोधितादेशादेशि. भावनिमित्तनिमित्तिभावान्यतरसम्बन्धेन। तेन अस्यापत्यं 'इ.' 'इयानात्यादे संग्रहः। ___ *विधिकोटिरिति । समुच्चयव्यावृत्ता कोटिताख्या विषयता संशये आवश्यकीति सूचनायोक्तं-*कोटिरिति । *अन्येषाम्*-नैयायिकानाम् । तैः "लः कर्मणि" ( पा०सू० ३।४।६९ ) "स्वौजसमौट्” ( पा०सू० ४।१।२) इत्यादिविहितप्रत्ययानामेव वाचकत्वम् , तिब्विसर्गादीनां त्वादेशिस्मृतिद्वारा बोधकत्वमेव लिपिवदित्यभ्युपगमात् । तथाच साध्वन्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन मतभेदेनोभयसाधनान्नोक्तदोष इति भावः । यथाश्रुतमूलोक्तविप्रतिपत्तिमनुसृत्याह-*साधुशब्द इत्यादि । ननु सा. ध्वन्तर्गतवर्णानां बोधकत्वसाधनेऽपि न वाचकत्वसिद्धिरत आह-*बोधका वाचकाइति । *तस्यैवेति । बोधकत्वस्यैवेत्यर्थः । *प्रागिति । शक्तिनिरूपणावसर इत्य
परीक्षा ___ *तत्र = अष्टसु । तान् = स्फोटान् । विप्रतिपत्तिरिति । संशयजनककोट्युपस्थापकं वाक्यमित्यर्थः । साधारणासाधारणधर्मवत्ताज्ञानजन्यकोट्युपस्थितेर्यथा संशयजनकत्वम् , तथा विप्रतिपत्तिवाक्यजन्यकोट्युपस्थितिसत्षेऽपि संशयो भवति, साधारणो धर्म:-कोटिद्वयसामानाधिकरणो धर्मः, स्थाणुत्वस्थाणुत्वाभावसमानाधिकरणो धर्मवानयम्-वह्निमदवृत्तिवह्नयभाववद् पर्वतत्ववानयमिति वा ज्ञानं, यत्र ततः स्थाणुत्वतदभावयोर्वह्नित्वतदभावयोर्वोपस्थितावयं स्थाणु नवाऽयं वह्नि नैवेति संशयो भवति, तथा चैत्रेण शब्दो नित्यो वाऽनित्यो वेत्युच्चारिते मैत्रस्य ततः कोटिद्वयोपस्थितौ शब्दत्वावच्छिन्नैकविशेषतानिरूपितोभयकोटिप्रकारताकः संशयो भवति ।
असाधुशब्दान्तर्गतवर्णानां वाचकत्वमप्रस्तुतम् , अतः साधुशब्द इत्युक्तिर्मले ता. शविप्रतिपत्तिवाक्येन साधुशब्दान्तर्गतवर्णत्वसामानाधिकरण्येन वाचकत्वं साध्यते, तदवच्छेदेन वा। आद्य-नैयायिकैरपि केषाञ्चित्तादृशानामिजादिप्रत्ययानां दाक्षि. रित्यादौ वाचकत्वस्वीकारात्सिद्धसाधनापत्तेः । द्वितीये नैयायिकानाम्परेषाञ्च बाधः। विकरणानामनर्थकत्वादत आह-*नतु तैः स्मृता इति । नन्वेतावतापि न विप्रतिपत्तिशरीरनिष्पत्तिः, साधुशब्दान्तर्गतवर्णत्वसामानाधिकरण्येन वाचक
Loading... Page Navigation 1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502