Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
३८६
दर्पणपरीक्षासहित भूषणसारे
दर्पणः केचित्तु लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्वत्ताबुद्धित्वावच्छिन्नं प्रति तदभाववत्ताज्ञानाभावस्य हेतुतया शाब्दबोधस्यापि तत्कार्यतावच्छेदकाक्रान्ततया अयोग्यताज्ञानसत्त्वे तदभावादेव शाब्दबोधवारणे कृतं योग्यताज्ञानस्य तद्धतुतया । कार्यतावच्छेदककोटौ प्रत्यक्षान्यत्वनिवेशेनैव लौकिकप्रत्यक्षनिरासेपि घटाद्युपनीतभानसङ्ग्रहाय तद्विहायाजन्यान्तद्वयनिवेशः। _ नच बाधनिश्चयाभावत्वापेक्षया संशयनिश्चयसाधारणयोग्यताज्ञानत्वेन हेतुत्वे ला. घवमिति वाच्यम् । स्यादेवम्, यदि बाधाभावस्य शाब्दत्वं कार्य्यतावच्छेदक कल्प्येत, किन्तु शाब्दबोधस्य बाधाभावकार्य्यतावच्छेदकाक्रान्ततया तद्दशायां तं प्रतिषेधामः । अत एव घटोऽभिधेय इत्यादावुक्तबाधाप्रसिद्धावपि न क्षतिः। तत्संसर्गावच्छिन्नतत्त्प्र. कारकतद्विशेष्यकबुद्धित्वस्यैव तत्कायंतावच्छेदकत्वात् । घटाभावेऽभिधेयत्वप्रतियो. गिकत्वभ्रमदशामादाय तदभावस्यापि प्रसिद्धेश्चेत्याहुः।
अन्न वदन्ति-न हि तद्विशिष्टबुद्धिसामान्ये बाधाभावः कारणं, किन्तु बाधावतारे इच्छासत्त्व आहार्य्यप्रत्यक्षोदयादिच्छाया उत्तेजकत्वानुरोधेन प्रत्यक्षस्यैव प्रतिबध्य. तावच्छेदकत्वावश्यकतयोपनीतभानसाधारणप्रतिबध्यतायाः शाब्दबोधेऽसम्भवात् । न च तथाप्यनुमितिसाधारणप्रतिबध्यतायाः शाब्दबोधसाधारण्यं शङ्यम् । तत्साधारणस्य प्रत्यक्षान्यज्ञानत्वस्य प्रतिबध्यतावच्छेदकत्वे प्रत्यक्षान्यत्वज्ञानत्वयोमिथो विशेष्यविशेषणभावे विनिगमनाविरहेणानेकप्रतिबध्यप्रतिबन्धकमावापत्तेः । प्रतिबध्यतावच्छेदकगौरवापत्तेश्चानुमितित्वस्यैव तदवच्छेदकत्वस्याङ्गीकरणीयत्वात्। अतो बाधाभावस्य स्वातन्त्र्येणैव शाब्दबोधं प्रति हेतुता वाच्या। तत्र चोक्तगौरवेण संस. र्गरूपयोग्यताज्ञानस्यैव हेतुत्वमुचितम् ।
अपि च शाब्दबोधे तद्वदन्योन्याभावतदभावव्याप्यवत्ताज्ञानादीनां प्रतिबन्धकत्वकल्पनाऽपेक्षया लाघवाद योग्यताज्ञानस्यैव हेतुत्वमुचितम् । किञ्च 'पयसा सिञ्चतिः इति शाब्दसामग्रीकाले सेकः पयः करणकत्वाभाववानिति मानसवारणाय तत्र शाब्द. बोधसामग्र्याः प्रतिबन्धकत्वकल्पने तत्र योग्यताज्ञानस्यावश्यकतया विपरीतज्ञानोत्तर. प्रत्यक्षे विशेषदर्शनस्य हेतुतया तदभावादेव तद्वारणात् । विशेषदर्शनसत्वे तु तदभावव्याप्यवत्तानिर्णयरूपप्रतिबन्धकत्वेन ज्ञाब्दसामग्र्या एवाभावेन तथा मानसे इष्टापत्तेः।
नच निर्णयं प्रत्येव विशेषदर्शनस्य हेतुतया ज्ञाब्दसामग्रीकाले मानससंशयवारणाय शाब्दसाय्याः प्रतिबन्धकत्वे कल्पनीये संशयत्वमनिवेश्य सेकत्वाऽवच्छिन्नविशेष्यकपयः करणत्वाऽभावप्रकारकमानसत्वमेव तत्प्रतिबध्यतावच्छेदकमिति वाच्यम् । सेकत्वावच्छिन्नविशेष्यकपयःकरणकत्वप्रकारकमानसे शाब्दसामग्रीप्रतिबन्धकत्वान्तरस्य कल्प्यतया तेनैव संशयवारणे तत्संशये प्रतिबन्धकत्वान्तरकल्पनात् ।। __ न च विपरीतज्ञानोत्तरप्रत्यक्षे विशेषदर्शनस्य हेतुत्वसिद्धावेव योग्यताज्ञानस्य हेतु. त्वसिद्धिरिति वाच्यम् । गुरुभूतशाब्दसामग्रीप्रतिबन्धकत्वकल्पनापेक्षया तद्धेतुत्वकल्पनाया एवोचितत्वात् । अनयैव दिशेष्टसाधनत्वादिज्ञानानां प्रवृत्तौ हेतुत्वसिद्धिरित्यलं परमतानुवर्णनेन। ___ घटः कर्मत्वमित्याधाराधेयभावेनान्वये निराकाङ्क्षवाक्याद् घटीया कर्मतेति बोधानुदयादाकासापि सहकारिणी। सा च यत्पदे यत्पदसमभिव्याहारप्रयुक्तं यद्विशेष्य
Loading... Page Navigation 1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502