Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 397
________________ ३६८ दर्पणपरीक्षासहिते भूषणसारे__वस्तुतस्तु जिशासैव नानुभवसिद्धा । तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेनैव हेतुहेतुमद्भावात्तत्तद्रूपेणैव वाच्यता स्यादिति ध्येयम् ॥ ५६ ॥ इति वैयाकरणभूषणसारे अभेदैकत्वसङ्ख्यानिरूपणम् ॥ ११ ॥ दर्पणः स्थायाम् । अनुभवसिद्धत्वे चेत्यर्थः ॥ *समानप्रकारकत्वेनैवेति ॥ एवकारेण विभिनप्रकारकत्वव्यवच्छेदः । तद्धर्मप्रकारकेच्छां प्रति तद्धर्मप्रकारकत्वज्ञानस्य हेतुतायाः सुखादीच्छा-थले क्लुप्तत्वात्। प्रकृते विशेषधर्मप्रकारकजिज्ञासायाः सविषयविषयकत्वेन ज्ञानप्रकारीभूतविशेषधर्मप्रकारकत्वस्यावश्यकत्वेन तत्पदार्थविशेषधर्मप्रकारकज्ञानकार्य्यतावच्छेदकाक्रान्तत्वादिति भावः॥ . *तत्तद्रूपेणैवेति ॥ एकत्वत्वादिरूपेणैवेत्यर्थः । एवकारेण संख्यासामान्यधर्मव्यवच्छेदः । इष्टापत्तिस्तु न । तथा सति शब्दादेव विशेषधर्मावगतौ जिज्ञासाया असम्भवादिति भावः। परीक्षा न्यरूपेणैकत्वद्वित्वादेर्वाच्यताङ्गीकर्तव्या। सैव तु नास्ति इत्याह-वस्तुत इत्या. दिना* । एतच्चोक्तकार्यकारणभावमभ्युपेत्य वस्तुतस्तादृशकार्यकारणभाव एव नास्ति, यत्र राजादिपदविशेषश्रवणेऽपि विशेषजिज्ञासा तच्छब्दश्रवणरूपोद्बोधकजनितोद्बोधनविशिष्टसंस्कारजातस्मरणेन तावते तत्र व्यभिचारात्। एवमामफलदर्शनमात्रेणैव स्मरणानन्तरं विशेषरसजिज्ञासाऽनुभवसिद्धा । तत्रापि व्यभिचारो द्रष्टव्यः। *जिज्ञासैवेति । 'राजपुरुष'इत्यादिश्रवणानन्तरजातशाब्दबोधोत्तरं राज्ञः, राज्ञोः, राज्ञां, वेति जिज्ञासैव नानुभवसिद्धेति । एवञ्च-कथं जिज्ञासानुरोधेन सामान्यधर्मप्रकारकज्ञानस्यावश्यकतेति शेषः । नतु जिज्ञासा जायते न घेत्यत्र निर्णयः । स यथा नेति निर्णयस्य सिद्धिः। प्रकारान्तरेण भवतीत्याशयेनाह-*तथात्वे वेति । अनुभवसिद्धत्वे वेत्यर्थः। *समा. नप्रकारकत्वेनेति । यद्धर्मप्रकारकज्ञानमादौ भवति, तद्धर्मप्रकारिकैवेच्छा जन्यते इति । समवायेन तद्धर्मप्रकारेकेच्छाम्प्रति तद्धर्मप्रकारकज्ञानत्वेन कारणता इत्याकारकः का. र्यकारणभावः । यस्य पुरुषस्य 'सद्यः शुक्रकरम्पयः' इति ज्ञानं तस्य पयो जायतामि त्याकारकेच्छा भवति यथा । एवञ्च जिज्ञासा-ज्ञानेच्छा, तस्य ज्ञानातिरिक्तविषयकत्वं याचितमण्डनन्यायेन स्वविषयज्ञानविषयत्वेनैवेति । यदि विशेषधर्मप्रकारकज्ञानेच्छा जायते इति ब्रूषे! तदेच्छायां ज्ञानभिन्नविशेषपदार्थभाननिहाय विशेषधर्मप्रकारकज्ञानपूर्वकत्वमप्यस्तीति, अनापत्या भवता स्वीकार्यमिति सङ्ख्यात्वत्वाद्यवछिन्नेऽ. स्य वाच्यत्वं भवन्मते सिध्येत, नतु सामान्यरूपेण विशेषस्यवाच्यत्वसिद्धिरित्याशयः। *तत्तद्रूपेण* एकत्वद्वित्वत्वादिविशेषरूपेण । यदिष्टापत्तिस्तर्हि विशेषधर्मप्रकारकं ज्ञानं सिद्धमेव, तदा सिद्ध इच्छाविरहाजिज्ञासोच्छेदः । तथा च मूलोच्छेदात्तत्र शक्तिकल्पनमनर्थकमिति भावः । एतेन भवत्संमताया विशेषवति जिज्ञासा नैवास्तीत्यस्य सिद्धा. नभेदैकत्वसङ्ख्याया द्वितीयमतरीत्या न सिद्धिः, तथा च प्रथममतमेव युक्तमिति

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502