Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
३६०
दर्पणपरीक्षासहिते भूषणसारे१४) इत्यादिकं संगृह्यते ।
दर्पणः णम् । माञ्जिष्टपटादेश्चक्षुरादिना रक्तत्ववारणाय तदीयत्वं रूपविशेषणम् । अन्न च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थैकदेशसम्बन्धे प्रतियोगितया रूपे चाधेयतयान्वयः । तथाच मञ्जिष्ठासंबन्धाधीनो यो मञ्जिष्ठानिष्ठरूपारोपस्तद्विषयता
परीक्षा पाढभेदसत्वात् यत्काठकगृह्यीयम्पूर्वोक्तन्तदेतादृशाधिकपरमेव । नच यदि चैत्रादिशब्दो यौगिकस्तहि मीनादिरविविशिष्टकालरूपेषु चैत्रादिसौरेषु रूढिरेव चैत्रादिपदस्यास्तामिति वाच्यम् । 'सावैशाखस्यामावास्याया रोहिण्या सम्बध्यते' इति श्रुतिबलाच्चान्द्र एव शक्तिसिद्धेः । तथाहि-यदि सौर एव शक्तिस्तदा वैशाखपदस्य मेषस्थरविविशिष्टकाल एव शक्तिरिति तदमावास्यायां रोहिण्याञ्चन्द्रस्यावस्थानाभावाच्छुतिविरोधः स्पष्ट एव । “यः सूर्यचन्द्रमसोः परः सन्निकर्षः साऽमावास्या" इति गोभिलवचनादमा. वास्यान्ते चन्द्रस्य सूर्यस्य तदवस्थाने नियमात् । यदि तु चान्द्रे शक्तिस्तदाऽस्ति संभवः । शुक्लप्रतिपदादेवैशाखस्यान्ते चन्द्रावस्थानस्य प्रायोरोहिण्या:सम्भवात्। श्रुतिस्थं रोहिणीपदं कृत्तिकारोहिण्यन्यतमपरम् । तदुक्तं ज्योतिःसिद्धान्ते
मेषादिस्थे सवितरि यो मासः प्रपूर्यते चन्द्रः ।
चैत्राद्यस्सविज्ञेयः पूतिद्धित्वेऽधिमासोऽन्यः । इति । अत्रायशब्दो वैशाखादिसङ्ग्राहक इत्याहुः ।
अपरे तु-पौषीपदे पुष्ययोगप्रयोगत्वं विवक्षितम् । एवञ्च पुनर्वसुनक्षत्रसत्वेऽपि न क्षतिरित्याहुः । “तदस्यास्त्यस्मिन्निति मतुप्" अनेन सूत्रेण पौषस्येति षष्टयर्थे प्रत्ययो विधीयते इति प्रतिभाति, तथापि धनवान् इति सामानाधिकरण्यानुभवात्सम्बन्धी वाच्य इति कल्प्यते । एवञ्च-गोमानित्यादौ मतुबर्थः सम्बन्धी तदेकदेशसम्बन्धे प्रकृत्यर्थस्य निरूपितत्वसम्बन्धेनान्वयः । नच "प्रकृतिप्रत्ययौ” इतिनियमे प्रत्ययार्थशब्देन प्रत्ययाजन्यत्वप्रतीतिमुख्यविशेष्यस्य ग्रहणात् तत्रैवान्वय उचितो; नतु विशेषणे इति वाच्यम् । औपगवादौ यस्तद्धितस्तदर्थापत्येकदेशजन्यतायाम्प्रकृत्यर्थान्वयदर्शनेनोक्तलौकिकनियमे प्रत्ययजन्यप्रतीतिविषयमात्रस्याग्रहणात् । सम्बन्धे आश्रये च खण्डशः शक्तेः सम्भवाच्च । नच भूमिनिन्दादिकमपि मत्वर्थीयप्रत्ययान्तजन्यशाब्दबोधे भासते, तस्य कथमुपपत्तिः, सूत्राद्यनुपादानादिति वाच्यम् । प्रकरणादिवशात्तस्यार्थस्य शाब्दबोधेभानानुभवो न । यत्र तेषामर्थानाम्प्रतीतिस्तत्र प्रकृतेस्तत्तदर्थविशिष्टे लक्षणास्वीकारात् । ___*इत्यादिकमिति । आदिपदेन "तस्यापत्यम्" "तेन रक्तं रागात्" "संस्कृतं भक्षा" "तेन क्रीतम्" "तदस्मिन्नस्तीतिदेशे तन्नाम्नि” इति सूत्रचतुष्टयस्य "दृष्टं साम” इत्यादेश्व परिग्रहः । तत्रापत्यार्थविहिततद्धितार्थैकदेशजन्यतायाम्प्रकृत्यर्थस्यैकान्वयो भवत्येव । जन्यत्वस्य नित्यनिरूपकाकाङ्क्षत्वात् । यत्र गोत्रापत्ये प्रत्ययस्तत्र जन्यजन्ये पुंसि प्रत्ययस्य शक्तिः प्रथमजन्यतायाम्प्रकृत्यर्थस्योक्तसम्बन्धेनान्वयः। गाग्र्यायणो दाक्षायण इत्यादौतु युनिप्रत्ययो भवति, तत्र प्रत्ययार्थो युवत्वम् । अपत्यञ्च प्रकृत्यर्थगर्गगोत्रापत्यं दक्षगोत्रापत्यम्, तत्र निरूपितत्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः ।
Loading... Page Navigation 1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502