Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
२९८ दर्पणपरीक्षासहित भूषणसारेतेषु तेषु शक्तिकल्पने गौरवात् । न च पर्यायतुल्यता शङ्कया। तेषां सर्वदेशेष्वेकत्वाद् विनिगमनाविरहेण सर्वत्र शक्तिकल्पना । न हि अपभ्रंशे तथा । अन्यथा भाषाणां पर्यायतया गणनापत्तेः। एवञ्च शक्तत्वमेवास्तु ; साधुत्वमिति नैयायिकमीमांसकादीनां मतम् , तन्मतेनैव द्रष्टव्यम् ।
इदानीं स्वमतमाह-वाचकत्वाविशेषे चेति* ॥ अयम्भावःअपभ्रंशानामशक्तत्वे ततो बोध एव न स्यात् । न च साधुस्मरणात् ततो बोधः। तानविदुषां पामराणामपि बोधात् । तेषां साधोर
दर्पणः उक्तमेवार्थ दृढयितुमाशते-*नन्विति । तेषाम् = साधुपर्यायाणाम् । *एकत्वादिति ॥ एकजातीयत्वादित्यर्थः ॥ तथा एकजातीयत्वं येन तत्रापि विनिगमकाभावाच्छक्तिकल्पना स्यादिति भावः।
*अन्यथेति । एकजातीयत्वस्य शक्तिकल्पनायामतन्त्रत्वे शक्तिमत्त्वाऽविशेषात्साधूनामिवाऽपभ्रंशानामपि कोशादौ प्रतिपादन प्रसज्ज्येतेत्यर्थः । *तन्मतेनैवेति । 'ते साधुष्वनुमानेन इत्यायुक्तहरिमतेनैवेत्यर्थः । अपभ्रंशाद-बोधस्योक्तरीत्योपपादित. त्वात्। तत्र शक्तिकल्पनं स्वाग्रहमूलकमित्याशङ्कां निराचिकीर्षुस्तत्रोक्तप्रकाराऽसम्भवं दर्शयति-अयम्भाव इति । *तानिति । साधुशब्दानित्यर्थः । अज्ञानहेतु. माह-*पामराणामिति । *बोधादिति । व्यवहारेण तेषां बोधाऽनुमानादित्यर्थः । __तथाचानधीतशास्त्राणां तेषां साधुत्वप्रकारकशब्दज्ञानाऽसम्भवेन न तत्र साधुशब्दस्मृतिकल्पनया शाब्दबुद्धिरुपपादयितुं शक्येति भावः । किञ्च साधुशब्दस्मृतिकल्पना कथञ्चिसम्भवेदपि यदि प्रत्यक्षश्रुतसाधुशब्दबोधोदयः स्यात् , स एव नास्तीत्याह
परीक्षा शक्तिकल्पको व्यवहारस्तथा गाव्यादिशब्देप्यस्तीति तेषामपि वाचकत्वमस्त्विति भावः । *अन्यथेति* = अपभ्रंशेष्विति शेषः । तेषां पायाणामेकत्वात्-एकजातीयत्वात् । तथैकजातीयत्वम् । अन्यथैकजातीयत्वस्य पायतायामनिया. मकत्वेऽपर्यायाणां यथा शक्तिमत्वे तथा अपभ्रंशानामपि शक्तिमत्वे पर्यायतुल्यतया तेषामपि कोशादौ प्रयोगानापत्तिरिति भावः । *तन्मतेनैवेति । ते साधुध्वनुमानेन इत्यादिना यद्धरिमतमुक्तं तेनैवेत्यर्थः । ननु पूर्वोक्तरीत्या अपभ्रंशेभ्योऽर्थप्रतीतिनिर्वाह तेषु शक्तिकल्पनं स्वाग्रहमूलकमिति कस्यचिच्छा स्यादिति तदनुत्पत्तये आह--*अयम्भाव इति । ततस्तेभ्यस्तान्,= साधुशब्दान् , बोधादिति, गाव्यादिशब्दश्रवणोत्तरकालिकयामकत्तुकगवानयनादिदर्शनेन तेष्वबोधानुमानादित्यर्थः । यदि साधुत्वाश्रयशब्दज्ञानं तेषां स्यात्तदाऽसाधुभ्यः साधुस्मरणमनधीतशास्त्राणां तेषामपि स्यात्तदेव नास्तीति भावः। अश्रुतवैपरीत्यमस्तीत्याह-*तेषामिति । पामराणामित्यर्थः । अपभ्रंशेभ्य एव तेषां बोधो भवतोति न साधुस्मरणकल्पकमस्तीति भावः । अपभ्रंशेषु शब्देष्वर्थनिरूपितशक्ति_मात्ते
Loading... Page Navigation 1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502