Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 357
________________ ३२८ दर्पणपरीक्षासहिते भूषणसारे इत्याशङ्कयाह पदार्थः सदृशाऽन्वेति विभागेन कदापि न ॥ निपातेतरसङ्कोचे प्रमाणं किं विभावय ॥४४॥ सदृशा-सदृशेन, समानाधिकरणेनेति यावत् । अन्वेति, अभे. देनेतिशेषः । विभागेन-असदृशेन, असमानाधिकरणेनेति यावत् । अयमर्थ:-समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिनि दर्पणः रिक्तति । तथाच समुच्चयाद्यर्थस्य निपातार्थकत्वेन न तेन सार्क पदार्थान्तरस्य भेदान्वयानुपपत्तिरित्यर्थः । सदृक्शब्दस्य समाना दृगितिव्युत्पन्नस्योपादानेऽनन्वयापत्या प्रकृते तुल्ये रूढस्य, "तमिवेमं पश्यन्ति जना” इति भाष्ये कर्त्तकर्मव्युत्पन्नस्य वा। तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे-*सदृशेनेति । तुल्येनेत्यर्थः । ननु विरुद्धविभक्तिकस्यापि नामत्वादिना तुल्यत्वात् तेनाभेदेनान्वयापत्तिरत आह-*समानाधिकरणेनेति । तथाच समानविभक्तिकपदोपस्थाप्यत्वेन सादृश्यस्य विवक्षणानोक्तदोष इति भावः । एवञ्च मूलेऽन्वेतीत्यनन्तरमभेदेनेतीति शेषः । स्तोकम्पचतीत्यादौ विभिन्न विभक्तिकपदोपस्थाप्यत्वसदृशेनाप्यभेदान्वयादाह-*असमानाधि करणेनेति। विशेषवाचकपदप्रकृतिकविभक्तिविरुद्धार्थकविभक्तिप्रकृत्युपस्थाप्येनेत्यर्थः। ननु वाचकतावादिनोक्तव्युत्पत्तनिपातातिरिक्तत्वेन सङ्कोचनीयतयेत्युक्त्यैवाक्षेपध्रौव्ये मूले समानाधिकरणेत्यादिव्युत्पत्तिकथनेऽर्थान्तरमत आह-*अयमर्थ इति । स चेत्थं "विभागेन कदाचन" इत्यनेन व्यधिकरणयोरभेदान्वयं व्यवच्छिन्दता नामाथोंभेदेनाऽनन्वय इति व्युत्पत्तिरेव प्राधान्येन प्रदर्श्यते, नतु समानाधिकरणयोरितिव्युत्पत्त्यन्तरं तथा। किन्तु दृष्टान्तविधेयतया तदुपन्यसनमिति नोक्तदोषः । तथाच प्रधानीभूतव्युत्पत्तावेव निपातेतरसङ्कोचोत्कीर्तनमिति सर्व सुस्थम् । परीक्षा दृगित्यर्थको यद्यपि सम्भवति तदुपादानेऽन्वयानुपपत्तिरिति भावः । सदृक्शब्दः समा. ना दृगित्यर्थको यद्यपि सम्भवति ; तथापि तदुपादानेऽन्वयानुपपत्तिरिति तुल्यरूपेऽर्थे रूपस्य तस्य ग्रहणमित्यभिप्रेत्याह-*सदृशेनेति । *समानाधिकरणेनेति समानविभक्तिकपदोपस्थाप्यत्वेन सादृश्यं विवक्षितमिति भावः । ननु मृदु पचतीत्यादौ विरुद्ध विभक्तिकपदार्थेऽप्यभेदान्वयो भवतीत्यसदृशेनेत्यनुपन्नमत आह-*असमानेति। ननु पूर्वोक्तकार्यतावच्छेदकघटके निपातातिरिक्तत्वं विशेषणं मया दीयते इत्यनेन वाचकत्ववादिन आक्षेपसिद्धौ पदार्थ इत्यादिकथनमयुक्तम्पूर्वाक्षेपापरिहारादत आह*अयमर्थ इत्यादिः । अयम्भावः-विभागेनेत्यनेन व्यधिकरणयोरभेदान्वयव्यवछे. देन नामार्थयोभेदेन नान्वय इत्येव प्रदर्श्यते नतु समानाधिकरणयोरिति व्युत्पत्यन्तरं स्वीकार्यमिति । नच व्युत्पत्यनन्तरं न स्वीकार्यमित्यनुपपन्नं व्युत्पत्तिविचारस्या. प्रकृतत्वादिति चेदू ? न । पूर्वोक्तादिपदेन क्रोडीकारात् ।

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502