Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
__ भावप्रत्ययार्थनिर्णयः।
३५१ तशक्तिकेभ्यस्तथैव बोधः। तथाच शब्दोऽपि त्वप्रत्ययार्थ इति प्रपश्चितं भूषणे ॥५१॥ __इति वैयाकरणभूषणसारे त्वादिभावप्रत्ययार्थविचारः॥॥
दर्पणः शक्त्यंशे भाने उपस्थितत्वानलादिपदानामपि तदर्थे भानमविरुद्धम् । इदमेतच्छक्य. मित्याकारकार्थशक्तिग्रह एव विशेषरूपेणोपस्थितेस्तन्त्रत्वादिति भावः । तथैव बोध इति* ॥ पदवाच्यत्वप्रकारक एवेत्यर्थः । एवकारेण जात्यादिप्रकारकबोधव्यवच्छेदः । इदञ्च कश्चिदर्थो नलादिपदशक्योऽर्थत्वादित्यानुमानिकशक्तिग्रहाभिप्रायेण । उक्तोपनीतपदशक्तिग्रहे त्वर्थविशेष्यकबोधानुपपत्तिरेव । शक्तिज्ञानपदार्थोपस्थिति. शाब्दबोधानां समानप्रकारकत्वनियमादित्यवधेयम् । __नैयायिकास्तु-नलादिपदानामपि विशिष्यशक्तिग्रहो नानुपपन्नः । यत्र नलत्वा. दिसम्बन्धेन यत्किञ्चिद्धर्मवत्वधीस्तद्विषयीभूतनलत्वादेः शक्तिग्रहे धर्मितावच्छेदकतया भाने बाधकाभावात् । यद्वा यत्र प्रमेयत्वेन प्रमेयवानित्याकारा नलत्वादिविशिष्टबुद्धिः, ततश्च प्रमेयत्वांशे मोषदशायां स्वरूपतो नलत्वादिप्रकारकनलविशेष्यकस्मरणे बोधकाऽभावात्तद्विषयनलत्वादिना विशिष्य नलादौ नलादिपदशक्तिग्रहेण तत्तद्रूपेण नलादि. पदान्नलादिबोधस्य सुलभत्वात् । ___ न च प्रमेयत्वांशे मोषकल्पने मानाभावः। अनूभूयमानतत्तद्धर्मप्रकारकशाब्दवो धानुपपत्तेरेव मानत्वात् । कथमन्यथानुभवात्मकसमूहालम्बनादेकपदार्थोद्बोधकाऽस. मवधानेऽन्यपदार्थस्मृतिः । अक्लप्तस्यार्थोऽशे पदविशेषणत्वस्य कल्पनापेक्षया ताश. स्मृतौ प्रमेयत्वांशे मोषकल्पनस्यैव न्याय्यत्वात् । पदस्यार्थधर्मत्वाभावेन तस्य पदांशे विशेषणत्वासम्भवाच्च । तस्य पदस्य तस्मिन् पदे शक्तिरित्यर्थस्य लौकिकत्वेन पदप्रकारकबोधस्य सार्वत्रिकत्वासम्भवाच्चेत्याहुः ॥ ११ ॥ __ इति भूषणसारदर्पणे भावप्रत्ययार्थनिरूपणम् ॥९॥
- परीक्षा दर्शनरूपोद्बोधकदर्शनेन सादृश्यात्कुण्डमात्रस्य स्मृतिर्जन्यत इत्यस्य लोकप्रसि. दत्त्वात। नचैवं सति 'जातिमान् घटपदशक्यः' इति ग्रहानन्तरं स्वरूपतो घटत्वस्य स्मृतिरपि स्यादिति वाच्यम् । उद्बोधकस्य फलबलकल्प्यतया तादृशस्थले मोक्षस्याकल्पनादिति।
वस्तुतस्तु-भाष्ये “यस्य गुणस्य भावाद्रव्ये शब्दनिवेशस्तदभिधाने त्वतलो, इति प्रथमत उक्तम् । तत्र गुणशब्दश्चानाश्रयस्य भेदकधर्मस्य बोधकः । तथा च सौत्रात् भावपदम्प्रवृत्तिनिमित्तपरम् । घटत्वमित्यादौ प्रवृत्तिनिमित्तत्वावच्छिन स्त्वाद्यर्थः । षष्टयर्थः-आधेयता। बोधस्तु समभिव्याहाराद्विशेष्यैव । यद्वा-सर्वस्मिन् पक्षे-प्रवृतिः शब्दपरा, प्रवृत्तिनिमित्तं त्वाद्यर्थः । घटस्य भाव इत्यादौ षष्ठयों वाच्यत्वम् । एवञ्चोभयपक्षेऽपि तत्तच्छब्दप्रवृत्तिनिमित्तस्यैव भावप्रत्ययार्थत्वमिति दिक्॥५१॥
इति श्रीभूषणसारटीकायां परीक्षायाम्भावप्रत्ययार्थनिरूपणम ॥en -
Loading... Page Navigation 1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502