________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - १
की तरह असत् रुप बन जाते है। (इस विषय में) विस्तार से गये। (इस प्रकार "स्याद्वाद" पद की व्याख्या की। वह) स्याद्वाद के प्ररुपक अर्थात् सम्यक्वक्ता वह स्याद्वाद देशक। वह स्याद्वाददेशक को (नमस्कार करके..... इस प्रकार “नत्वा" के साथ अन्वय करना।) इस ‘स्याद्वाददेशक' विशेषण द्वारा भगवान का 'वचनातिशय' कहा गया । इस प्रकार चार अतिशय शास्त्रकार महर्षि के द्वारा साक्षात् कहे गये।
वे चारो अतिशयो का हेतु-हेतुमद् भाव इस प्रकार सोचना - जिस कारण से ही सर्व रागादिदोषरुप शत्रुओको जीतनेवाले है उस कारण से ही सर्वज्ञ है। जिस कारण से सर्वज्ञ है, उस कारण से ही यथार्थवादि है। जिस कारण से यथार्थवादि है, उसी कारण से ही त्रिभुवन को पूज्य है।
एवमतिशयचतुष्टयीप्रवरं वीरं महावीरं वर्तमानतीर्थाधिपति श्रीवर्धमानापराभिधानं नत्वा मनसा तदतिशयचिन्तनेन, वाचा तदुचारणेन, कायेन भूमौ शिरोलगनेन च प्रणिधायेत्यर्थः । एतेनादिमं मङ्गलमभिदधौ । मध्यमङ्गलं तु “जिनेन्द्रो देवता तत्र रागद्वेषविवर्जित” [षड्दर्शन श्लो० - ४५] इत्यादिना जिनमतकीर्तनेन कीर्तियिष्यति । अन्त्यमङ्गलं पुनरभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिरित्यत्र सुबुद्धिशब्दसंशब्दनेन (शंशनेन) वक्ष्यति । तस्य त्रिविधस्यापि A+फलमिदम्“तं मंगलमाईए मज्झे पज्जंतए य सत्थस्स । पढमं सत्थस्साविग्घपारगमणाए निद्दिठं ।। १ ।।
तस्सेवाविग्घत्थं (तस्सेव उ थिज्जत्थं) मज्झिमयं अंतिमं च तस्सेव अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ।। २ ।।” [विशेषा० गा० १३-१४]
वीरं नत्वेत्युक्तं, तत्र क्त्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वान्निगद्यत इति क्रियापदमत्र संबन्धनीयम् । को निगद्यते । सर्वदर्शनवाच्योऽर्थः सर्वाणि मूलभेदापेक्षया समस्तानि यानि दर्शनानि बौद्धादीनि तैस्तेषां वा वाच्योऽभिधेयोऽर्थो देवतत्त्वप्रमाणदिलक्षणः संक्षेपेण समासेन निगद्यतेऽभिधीयते । मयेत्यनुक्तमप्यत्रार्थाद् गम्यते । एतेन साक्षादभिधेयमभ्यधात् ।
संबन्धप्रयोजने तु सामर्थ्यादवसेये । सर्वदर्शनवक्तव्यदेवतत्त्वादिज्ञानमुपेयं, इदं शास्त्रं तस्योपायः, एवमुपायोपेयलक्षणः संबन्धः सूचितो द्रष्टव्यः । A-प्रयोजनं तु द्वेधा कर्तुः श्रोतुश्च । द्वयमपि द्वेधा, अनन्तरं परंपरं च । कर्तुरनन्तरं प्रयोजनं सत्त्वानुग्रहः । श्रोतु-रनन्तरं सर्वदर्शनाभिमतदेवतत्त्वप्रमाणादिज्ञानम् । द्वयोरपि परंपरं पुनर्हेयोपादेय-दर्शनानि ज्ञात्वा हेयान्यपहायोपादेयं चोपादाय परंपरयानन्तचतुष्टयात्मिका सिद्धिरिति ।
(A-4)-- तुलनात्मकपाठः परिशिष्टे द्रष्टव्यः । (A-5)- तुलनात्मकपाठः परिशिष्टे द्रष्टव्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org