Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 667
________________ ५५४ षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ (D-4) "प्रकाशशीलं सत्त्वं, क्रियाशीलं रजः, स्थितिशीलं तम इति ।" योगद० व्यासभा० २।१८ __ (D-5) "यो हि कश्चित् क्वचित् प्रीतिं लभते तत्र आर्जवमार्दवसत्यशौचहीबुद्धिक्षमानुकम्पाज्ञानादि च । तत्सत्त्वं प्रत्येतव्यम् । अप्रीत्यात्मकं रजः । कस्मात् । दुःखलक्षणत्वात् । यो हि कश्चित्कदाचित् क्वचित् अप्रीतिमुपलभते तत्र द्वेषद्रोहमत्सरनिन्दास्तम्भोत्कण्ठानिकृतिवञ्चनाबन्धवधच्छेदनानि च । तद्रजः प्रत्येतव्यम् । विषादात्मकं तमः । कस्मात् । मोहलक्षणत्वात् । यो हि कश्चित् कदाचित् क्वचित् मोहमुपलभते तत्र अज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिक्यविषादस्वप्नादि च तत्तमः प्रत्येतव्यम् ।" सां० का० माठर० पृ० २१ । सांख्यसं० पृ० ११ । (D-6) "प्रधानं प्रकृतिः अव्यक्तमव्याकृतं चेत्यनर्थान्तरम् ।" सांख्यसू० वि० पृ० १०५ । “सा च साम्यावस्थयोपलक्षितसत्त्वादित्रयरूपा ।" सांख्यसं० पृ० २ । प्रकरोतीति प्रकृतिः प्रधानं सत्त्वरजस्तमसां साम्यावस्था । सांख्यतत्त्वकौ० का० ३ । तत्त्वमी० पृ० १८५ । सांख्यसं० पृ० १४ । सां० तत्त्वप्र० १५३ । (D-7) "प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ।। प्रकृतिः प्रधानमधिकुरुते । ब्रह्म अव्यक्तं बहुधानकं मायेति पर्यायाः । तस्याः प्रकृतेर्महानुत्पद्यते प्रथमः कश्चित् । महान्, बुद्धिः, मतिः, प्रज्ञा, संवित्तिः, ख्यातिः वितिः, स्मृतिरासुरी हरिः, हरः हिरण्यगर्भ इति पर्यायाः । ततोऽहंकारः । तस्मान्महतोऽहंकार उत्पद्यते । तस्य इमे पर्यायाः वैकृतस्तेजसो भूतादिरभिमानोऽस्मिता इति।" सां० का० माठर० पृ० ३६ । (D-8) "अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् सात्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥" सां० का० २३ । (D-9) "अभिमानोऽहंकारस्तस्माद्विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव।" सां० का- २४। (D-10) "बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुरसननासिकाख्यानि । वाक्पाणिपायूपस्थान् कर्मेन्द्रियाण्याहुः ।। उभयात्मकमत्र मनः संकल्पकमिन्द्रियं च साधर्म्यात् । गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच्च ।" सां० का० २६।२७ । (D-11) "तत्र शब्दतन्मात्रादाकाशं स्पर्शतन्मात्राद् वायुः, रूपतन्मात्रात्तेजः रसतन्मात्रादापः गन्धतन्मात्रात्पृथिवी इत्यादिक्रमेण पूर्वपूर्वानुप्रवेशेनैकद्वित्रिचतुष्पञ्चगुणानि आकाशादिपृथ्वीपर्यन्तानि महाभूतानीति सृष्टिक्रमः ।" सां० का० माठर० पृ० ३७ । (D-12) "तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टत्वमकर्तृभावश्च ।" सां० का० १९ । या वि भ० २। (D-13) "सते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६।। बाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्ति मनश्च संकल्प्य अहंकारस्य अहंकारश्चाभिमत्य बुद्धौ सर्वाध्यक्षभूतायाम् । सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७।। बुद्धिर्हि पुरुषसन्निधानात् तच्छायापत्या तद्रूपेव सर्वविषयोपभोगं पुरुषस्य साधयति ।" सांख्यका० ॥३६, ३७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712