Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 669
________________ ५५६ षड्दर्शन समुच्चय भाग-१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी परिशिष्ट-६ पारिभाषिकशब्दानुक्रमणी पारिभाषिक शब्द (सार्थ) श्लोक -१ से ३ (१) अनन्तधर्मात्मकस्य वस्तुनो य एकदेशोऽन्यदेशनिरपेक्षस्तस्य यदवधारणं सोऽपरिशुद्धो नयः । अनन्तधर्मात्मकस्य वस्तुनो य एकदेशोऽन्यदेशसापेक्षस्तस्य यदवधारणं सः परिशुद्धो नयः । (२) क्रियां जीवाद्यस्तित्वं वदन्तीत्येवंशीला: क्रियावादिनः । (३) नियति म तत्त्वान्तरमस्ति यद्वाशादेते भावाः सर्वेऽपि नियतेनैव रुपेण प्रादुर्भावमश्नुवते नान्यथा । (४) न कस्यचित्प्रतिक्षणमवस्थितस्य पदार्थस्य क्रिया संभवति उत्पत्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति ते अक्रियावादिनः। (५) यदृच्छा ह्यनभिसंधिपूर्विकार्थप्राप्तिः । ये भावानां संतानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति, किं तु यदृच्छया, ते यदृच्छावादिनः । (६) अज्ञानेन चरन्तीत्यज्ञानिकाः । कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः । (७) विनयेन चरन्तीति वैनयिकाः । (८) तत्त्वानि प्रमाणैरुपपन्नाः परमार्थसन्तोऽर्थाः । (९) बुद्धाः सप्त भवन्ति । तेषामिदं दर्शनं बौद्धम्। (१०) न्यायं न्यायतर्कमक्षपादर्षिप्रणीतं ग्रन्थं विदन्त्यधीयते वेति नैयायिकास्तेषांमिदं दर्शनं नैयायिकम् (११) संख्यां प्रकृतिप्रभृतितत्त्वपञ्चविंशतिरुपां विदन्त्यधीयते वा सांख्याः । (१२) जिना ऋषभादयश्चतुर्विंशतिरर्हन्तस्तेषामिदं दर्शनं जैनम् । (१३) नित्यद्रव्यवृत्तयोऽन्त्या विशेषा एव वैशेषिकम् तद्वैशेषिकं विदन्त्यधीयते वा वैशेषिकाः । तेषामिदं दर्शन वैशषिकम् । (१४) जैमिनिराद्यः पुरुषविशेषस्तस्येदं मतं जैमिनीयं मीमांसकापरनामकम्। (बौद्धदर्शनम्) श्लोक - ४ से ११ (१) धर्मबुद्धसङ्घरुपं रत्नत्रयम् । (२) आरादूराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः । सतां साधूनां पदार्थानां वा यथासंभवं मुक्तित्रापकत्वेन यथावस्थित वस्तुरुपचिन्तनेन च हितानि सत्यानि । आर्याणां सत्यानि आर्यसत्यानि । (३) आर्यसत्यानि चत्वारि सन्ति । तद्यथाः १.दुःखम्, २. समुदयः, ३. दुःखनिरोधः, ४. दु:खनिरोध मार्गश्च । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712