Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 668
________________ षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ इन्द्रियप्रणालिकया अर्थसंनिकर्षेण लिङ्गज्ञानादिना वा आदौ बुद्धेरर्थाकारा वृत्तिर्जायते... । स्मृतिरपि तस्मिंश्चिद् दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ता: प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥ सांख्यप्र० भा० २।८७ । बुद्धि दर्पणे पुरुषप्रतिबिम्बसंक्रान्तिरेव बुद्धिप्रतिसंवेदित्वं पुंसः तथा च दृशिच्छायापन्ना बुद्ध्या संसृष्टा: शब्दादयो भवन्ति दृश्या इत्यर्थः । योगसू० तत्त्ववैशा० २।२० । भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासंकीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्प्यते । योगसू० व्यासभा० २।६ । यच्च तत्रैव विन्ध्यवासिनो भाष्यम् भोक्तृभोग्यशक्तयो... । न्यायवि० वि० प्र० पृ० २३१ । अयमेव च तस्य भोगो यत्तत्र छायासंक्रमणसामर्थ्यम् इति च तन्निबन्धनकारस्य । न्यायवि० वि० प्र० पृ० २३४ । तस्मिंश्चिद्दर्पणे स्फारे समस्ताः वस्तुदृष्टयः । इमास्ता: प्रतिबिम्बन्ति सरसीव तटद्रुमाः । यथा संलक्ष्यते रक्तः केवलस्फटिको जनै: । रञ्जकाद्युपधानेन तद्वत्परमपुरुषः - इत्यादिस्मृतिशतैरपीति । यो० वा० पृ०२२ (D-14) “शुद्धोऽप्यसौ प्रत्ययानुपश्यो यतः प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्मापि तदात्मक इव प्रत्यवभासते ।" यो० भा० २।२० । ५५५ (D-15) “पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पड्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥” सांख्य का० २१ । (D-16) “स च बन्धस्त्रिविधः प्रकृतिबन्धो वैकारिकबन्धो दाक्षिणबन्धश्च । तत्र प्रकृतिबन्धो नाम अष्टासु (प्रकृतिबुद्ध्यहङ्कारतन्मात्रेषु) प्रकृतिषु परत्वेनाभिमानः । वैकारिकबन्धो नाम ब्रह्मा (बुद्ध्या) दिस्थानेषु श्रेयोबुद्धिः । दाक्षिणबन्धो नाम गवादिदानेज्यानिमित्तः ।" सां० माठरवृ० पृ० ६२ । प्रकृतिलयः प्रकृतिबन्ध इत्युच्यते, यज्ञादिभि: दाक्षिणबन्ध इत्युच्यते, ऐश्वर्यादिनिमित्तो भोगो वैकारिक इत्युच्यते । सां० माठरवृ० पृ० ६३ योगसू० तत्त्ववैशा० १।२४१ । सांख्यसं० पृ० २४ । स्या० मं० पृ० १९९ । प्रकृतिबन्धः प्रकृतिलयः परत्वेनाभिमन्यत: । संन्यासिनामिन्द्रियेषुलयो वैकारिकोऽपर: । गृहिणां दक्षिणाबन्धो वदान्यत्वाभिमानिनाम् । इत्येषस्त्रिविधो बन्धस्त्रिविधो मोक्ष उच्यते ॥ सांख्यसं० पृ० २४ । (D-17) “तावेतौ भोगापवर्गों बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति । यथा विजयः पराजयो वा योद्धृषु वर्तमान: स्वामिनि व्यपदिश्येते स हि तस्य फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते ।" यो० भा० २।१८ । (D-18) “त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकम् ।" सांख्यका० ५। “तच्च त्रिविधम् । पूर्ववत् शेषवत् सामान्यतोदृष्टं च । तत्र विशिष्टमेघोन्नतिदर्शनाद् भवित्रीं वृष्टिं सम्भावयति । पूर्वमियं दृष्टेति पूर्ववत् । नदीपूरदर्शनादुपरि वृष्टो देव इति वा प्रतीति: । शेषवद्यथा समुद्रोदकबिन्दुं प्राश्य शेषस्य लवणभावोऽनुमीयते इति शेषवत् । सामान्यतोदृष्टम् - पुष्पिताम्रदर्शनात् अन्यत्र पुष्पिता आम्रा इति । पुनर्यथा बहिरुद्योत इति केनाप्युक्तं, तत्रापरेणाप्युक्तम् । चन्द्र उदितो भविष्यतीत्यर्थसङ्गतिः । तल्लिङ्गलिङ्गिपूर्वकमिति । लिङ्गेन त्रिदण्डादिदर्शनेनादृष्टोऽपि लिङ्गी साध्यते नूनमसौ परिव्रास्ति यस्येदं त्रिदण्डमिति ।" सांख्यका० मा० वृ० पृ० १३ । (D-19) “आप्ता रागद्वेषादिरहिता ब्रह्मसनत्कुमारादयः, श्रुतिर्वेदः ताभ्यां उपदिष्टं तथेति श्रद्धेयमाप्तवचनम् । आप्ता ब्रह्मादय आचार्याः श्रुतिर्वेदस्तदेतदुभयमाप्तवचनम्। आप्तिः साक्षादर्थप्राप्तिर्यथार्थोपलम्भ: तया वर्तत इत्याप्त: साक्षात्कृतधर्मा यथार्थाप्त्या श्रुतार्थग्राही तदुक्तमाप्तवचनम् ।" सांख्यका० मा० वृ० का० ३ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712