Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी
५६१
(४०) वादिप्रतिवादिनो पक्षप्रतिपक्षपरिग्रहः कथा (वादः) । सा द्विविधा, वीतरागकथा विजिगीषुकथा च । यत्र वीतरागेण गरुणा सह शिष्यस्तत्त्वनिर्णयार्थे साधनोपालम्भौ करोति. सा वीतरागकथा। (साधनं स्वपक्षे. उपालम्भश्च परपक्षेऽनुमानस्य दूषणम् ।
(४१) छलजात्यादिदूषण या विजिगीषुकथा स जल्पः । (४२) प्रतिपक्षवर्तिता या विजिगीषुकथा सा वितण्डा।
(४३) असिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासाः । (४४) पक्षधर्मत्वं यस्य नास्ति सोऽसिद्धः । यथा अनित्यः शब्दश्चाक्षुषत्वात् । (४५) विपक्षेसन्मसपक्षे चासन् विरुद्धः । यथा नित्यः शब्दः कार्यत्वात् । (४६) पक्षादित्रयवृत्तिरनैकान्तिकः । यथा अनित्यः शब्दः प्रमेयत्वात् ।
(४७) प्रत्यक्षागमविरुद्ध पक्षे वर्तमानः हेतुः कालात्यपापदिष्टः । यथा अनुष्णोऽग्निः कृतकत्वात्, बाह्मणेन सुरा पेया द्रवद्रव्यत्वात्यथा क्षीरवत् ।
(४८) स्वपक्षसिद्धाविव परपक्षसिद्धावपि त्रिरुपो हेतुः प्रकरणसमः । यथा अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवत्, नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकशवत् ।।
(४९) परोपन्यस्तवादे स्वाभिमतकल्पनया वचनविघातश्छलम् । तत्रिविधं वाक्छलं सामान्य च्छलमुपचारछलं च । परोक्तेऽर्थान्तरकल्पना वाक्छलम् । संभावनयाति प्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यछलम् । औपचारिके प्रयोगे मुख्यार्थकल्पनया प्रतिषेध उपचारछलम् ।
(५०) दूषणाभासा जातयः । अदूषणान्यपि दूषणवदाभासन्त इति दूषणाभामाः । सा च साधादिप्रत्यवस्थानभेदेन चतुर्विंशतिभेदाः ।
१. साधर्म्यण प्रत्यवस्थानं साधर्म्यसमा जातिर्भवति । २. वैधर्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः । ३. उत्कर्षेण प्रत्यवस्थानं उत्कर्षसमा जातिः । ४. अपकर्षेण प्रत्यवस्थानं अपकर्षसमा जातिः । ५. वयेन प्रत्यवस्थानं वर्ण्यसमा जातिः । ६. अवयेन प्रत्यवस्थानं अवर्ण्यसमा जातिः । ७. धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । ८. साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः । ९+१०. प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्तिसमे जाती । ११. प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः । १२. प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः । १३. अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः । १४. या साधर्म्यसमा वैधरम्यसमा वा जातिः सैव संशयेन उपसंहियमाणा संशयसमा जातिः । १५. द्वितीयपक्षोत्थापनबुद्ध्या प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा च जातिः प्रकरणसमा जातिः । १६. त्रैकाल्यानुपपत्त्या हेतोः प्रत्यवस्थानं हेतुसमा जातिः । १७. अर्थापत्त्या प्रत्यवस्थानमर्थापत्तिसमा जातिः । १८. अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । १९. उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः । २०. उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः । २१. अनुपल्ब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । २२. साध्यधर्मनित्यानित्यविकल्पेन शब्दस्य नित्यत्वापादनं नित्यसमा जातिः । २३. सर्वभावानामनित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः । २४. प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्था कार्यसमा जातिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712