________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
इन्द्रियप्रणालिकया अर्थसंनिकर्षेण लिङ्गज्ञानादिना वा आदौ बुद्धेरर्थाकारा वृत्तिर्जायते... । स्मृतिरपि तस्मिंश्चिद् दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ता: प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥ सांख्यप्र० भा० २।८७ । बुद्धि दर्पणे पुरुषप्रतिबिम्बसंक्रान्तिरेव बुद्धिप्रतिसंवेदित्वं पुंसः तथा च दृशिच्छायापन्ना बुद्ध्या संसृष्टा: शब्दादयो भवन्ति दृश्या इत्यर्थः । योगसू० तत्त्ववैशा० २।२० । भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासंकीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्प्यते । योगसू० व्यासभा० २।६ । यच्च तत्रैव विन्ध्यवासिनो भाष्यम् भोक्तृभोग्यशक्तयो... । न्यायवि० वि० प्र० पृ० २३१ । अयमेव च तस्य भोगो यत्तत्र छायासंक्रमणसामर्थ्यम् इति च तन्निबन्धनकारस्य । न्यायवि० वि० प्र० पृ० २३४ । तस्मिंश्चिद्दर्पणे स्फारे समस्ताः वस्तुदृष्टयः । इमास्ता: प्रतिबिम्बन्ति सरसीव तटद्रुमाः । यथा संलक्ष्यते रक्तः केवलस्फटिको जनै: । रञ्जकाद्युपधानेन तद्वत्परमपुरुषः - इत्यादिस्मृतिशतैरपीति । यो० वा० पृ०२२
(D-14) “शुद्धोऽप्यसौ प्रत्ययानुपश्यो यतः प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्मापि तदात्मक इव प्रत्यवभासते ।" यो० भा० २।२० ।
५५५
(D-15) “पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पड्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥” सांख्य का० २१ ।
(D-16) “स च बन्धस्त्रिविधः प्रकृतिबन्धो वैकारिकबन्धो दाक्षिणबन्धश्च । तत्र प्रकृतिबन्धो नाम अष्टासु (प्रकृतिबुद्ध्यहङ्कारतन्मात्रेषु) प्रकृतिषु परत्वेनाभिमानः । वैकारिकबन्धो नाम ब्रह्मा (बुद्ध्या) दिस्थानेषु श्रेयोबुद्धिः । दाक्षिणबन्धो नाम गवादिदानेज्यानिमित्तः ।" सां० माठरवृ० पृ० ६२ । प्रकृतिलयः प्रकृतिबन्ध इत्युच्यते, यज्ञादिभि: दाक्षिणबन्ध इत्युच्यते, ऐश्वर्यादिनिमित्तो भोगो वैकारिक इत्युच्यते । सां० माठरवृ० पृ० ६३ योगसू० तत्त्ववैशा० १।२४१ । सांख्यसं० पृ० २४ । स्या० मं० पृ० १९९ । प्रकृतिबन्धः प्रकृतिलयः परत्वेनाभिमन्यत: । संन्यासिनामिन्द्रियेषुलयो वैकारिकोऽपर: । गृहिणां दक्षिणाबन्धो वदान्यत्वाभिमानिनाम् । इत्येषस्त्रिविधो बन्धस्त्रिविधो मोक्ष उच्यते ॥ सांख्यसं० पृ० २४ ।
(D-17) “तावेतौ भोगापवर्गों बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति । यथा विजयः पराजयो वा योद्धृषु वर्तमान: स्वामिनि व्यपदिश्येते स हि तस्य फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते ।" यो० भा० २।१८ ।
(D-18) “त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकम् ।" सांख्यका० ५। “तच्च त्रिविधम् । पूर्ववत् शेषवत् सामान्यतोदृष्टं च । तत्र विशिष्टमेघोन्नतिदर्शनाद् भवित्रीं वृष्टिं सम्भावयति । पूर्वमियं दृष्टेति पूर्ववत् । नदीपूरदर्शनादुपरि वृष्टो देव इति वा प्रतीति: । शेषवद्यथा समुद्रोदकबिन्दुं प्राश्य शेषस्य लवणभावोऽनुमीयते इति शेषवत् । सामान्यतोदृष्टम् - पुष्पिताम्रदर्शनात् अन्यत्र पुष्पिता आम्रा इति । पुनर्यथा बहिरुद्योत इति केनाप्युक्तं, तत्रापरेणाप्युक्तम् । चन्द्र उदितो भविष्यतीत्यर्थसङ्गतिः । तल्लिङ्गलिङ्गिपूर्वकमिति । लिङ्गेन त्रिदण्डादिदर्शनेनादृष्टोऽपि लिङ्गी साध्यते नूनमसौ परिव्रास्ति यस्येदं त्रिदण्डमिति ।" सांख्यका० मा० वृ० पृ० १३ ।
(D-19) “आप्ता रागद्वेषादिरहिता ब्रह्मसनत्कुमारादयः, श्रुतिर्वेदः ताभ्यां उपदिष्टं तथेति श्रद्धेयमाप्तवचनम् । आप्ता ब्रह्मादय आचार्याः श्रुतिर्वेदस्तदेतदुभयमाप्तवचनम्। आप्तिः साक्षादर्थप्राप्तिर्यथार्थोपलम्भ: तया वर्तत इत्याप्त: साक्षात्कृतधर्मा यथार्थाप्त्या श्रुतार्थग्राही तदुक्तमाप्तवचनम् ।" सांख्यका० मा० वृ० का० ३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org