________________
५५४
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
(D-4) "प्रकाशशीलं सत्त्वं, क्रियाशीलं रजः, स्थितिशीलं तम इति ।" योगद० व्यासभा० २।१८ __ (D-5) "यो हि कश्चित् क्वचित् प्रीतिं लभते तत्र आर्जवमार्दवसत्यशौचहीबुद्धिक्षमानुकम्पाज्ञानादि च । तत्सत्त्वं प्रत्येतव्यम् । अप्रीत्यात्मकं रजः । कस्मात् । दुःखलक्षणत्वात् । यो हि कश्चित्कदाचित् क्वचित् अप्रीतिमुपलभते तत्र द्वेषद्रोहमत्सरनिन्दास्तम्भोत्कण्ठानिकृतिवञ्चनाबन्धवधच्छेदनानि च । तद्रजः प्रत्येतव्यम् । विषादात्मकं तमः । कस्मात् । मोहलक्षणत्वात् । यो हि कश्चित् कदाचित् क्वचित् मोहमुपलभते तत्र अज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिक्यविषादस्वप्नादि च तत्तमः प्रत्येतव्यम् ।" सां० का० माठर० पृ० २१ । सांख्यसं० पृ० ११ ।
(D-6) "प्रधानं प्रकृतिः अव्यक्तमव्याकृतं चेत्यनर्थान्तरम् ।" सांख्यसू० वि० पृ० १०५ । “सा च साम्यावस्थयोपलक्षितसत्त्वादित्रयरूपा ।" सांख्यसं० पृ० २ । प्रकरोतीति प्रकृतिः प्रधानं सत्त्वरजस्तमसां साम्यावस्था । सांख्यतत्त्वकौ० का० ३ । तत्त्वमी० पृ० १८५ । सांख्यसं० पृ० १४ । सां० तत्त्वप्र० १५३ ।
(D-7) "प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ।। प्रकृतिः प्रधानमधिकुरुते । ब्रह्म अव्यक्तं बहुधानकं मायेति पर्यायाः । तस्याः प्रकृतेर्महानुत्पद्यते प्रथमः कश्चित् । महान्, बुद्धिः, मतिः, प्रज्ञा, संवित्तिः, ख्यातिः वितिः, स्मृतिरासुरी हरिः, हरः हिरण्यगर्भ इति पर्यायाः । ततोऽहंकारः । तस्मान्महतोऽहंकार उत्पद्यते । तस्य इमे पर्यायाः वैकृतस्तेजसो भूतादिरभिमानोऽस्मिता इति।" सां० का० माठर० पृ० ३६ ।
(D-8) "अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् सात्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥" सां० का० २३ ।
(D-9) "अभिमानोऽहंकारस्तस्माद्विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव।" सां० का- २४।
(D-10) "बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुरसननासिकाख्यानि । वाक्पाणिपायूपस्थान् कर्मेन्द्रियाण्याहुः ।। उभयात्मकमत्र मनः संकल्पकमिन्द्रियं च साधर्म्यात् । गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच्च ।" सां० का० २६।२७ ।
(D-11) "तत्र शब्दतन्मात्रादाकाशं स्पर्शतन्मात्राद् वायुः, रूपतन्मात्रात्तेजः रसतन्मात्रादापः गन्धतन्मात्रात्पृथिवी इत्यादिक्रमेण पूर्वपूर्वानुप्रवेशेनैकद्वित्रिचतुष्पञ्चगुणानि आकाशादिपृथ्वीपर्यन्तानि महाभूतानीति सृष्टिक्रमः ।" सां० का० माठर० पृ० ३७ ।
(D-12) "तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टत्वमकर्तृभावश्च ।" सां० का० १९ । या वि भ० २।
(D-13) "सते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६।। बाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्ति मनश्च संकल्प्य अहंकारस्य अहंकारश्चाभिमत्य बुद्धौ सर्वाध्यक्षभूतायाम् । सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७।। बुद्धिर्हि पुरुषसन्निधानात् तच्छायापत्या तद्रूपेव सर्वविषयोपभोगं पुरुषस्य साधयति ।" सांख्यका० ॥३६, ३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org