________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
५५३
इत्युक्तं तावत् । सम्प्रति हानादि बुद्धीनां फलत्वे विशेष्यज्ञानं प्रमाणमित्याह..." प्रश० कन्दली पृ० १९९ । मीमांसाश्लो० सू० ४ श्लो० ७२-७३ ।
(C-94) "कथं तर्हि स्मृतेर्व्यवच्छेदः ? अननुभवत्वेनैव... न च स्मृतिहेतौ प्रमाणाभियुक्तानां महर्षीणां प्रमाणव्यवहारोऽस्ति पृथगनुपदेशात् ।" न्यायकुसु० ४।१।।
(C-95) "द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ।" वैशे० सू० ५।२।१९ । उद्भूतरूपवद्यावत्तेजः संसर्गाभावस्तमः । वैशे० उप० ५।२।२० । किं पुरुषवच्छायापि गच्छति आहोस्वित् आवारकद्रव्ये संसर्पति आवरणसन्तानादसन्निधिसन्तानोऽयं तेजसो गृह्यत इति । सर्वता खलु द्रव्येण यस्तेजोभाग आवियते तस्य तस्यासंनिधिरेवावच्छिन्नो गृह्यते इति । न्यायभा० १।२।८ । भासामभावरूपत्वात् छायायाः । प्रश० व्यो० पृ० ४६। तस्मादभाव एव छाया न तु सतीति सिद्धम् । न्यायवा० ता० टी० पृ० ३४२ । प्रश० किर० पृ० १९ ।
(C-96) "शब्दोऽम्बरगुणः ।" प्रश० भा० व्यो० पृ० ६४५ । (C-97) "स्वविषयसर्वगतमभिन्नात्मकमनेकवृत्ति" प्रश० भा० व्यो० पृ० ६७७ । (C-98) "धर्मः पुरुषगुणः ।" प्रश० भा० व्यो० पृ० ६३७ ।
(C-99) "नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः ।" प्रश० व्यो० पृ० ६३८ । यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्ति वकल्पते ।। ननु तस्यामवस्थायां कीदृगात्मावशिष्यते? स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥ न्यायम० पृ० ५०८ । समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव । प्रश० कन्द० पृ० १८७ । निःश्रेयसं पुनर्दुःखनिवृत्तिरात्यन्तिकी । प्रश० किर० पृ०६।
(C-100) "कुंतो मुक्तस्य सुखोपभोग इति चेत् । आगमात् । उक्तं हि- सुखमात्यन्तिकं यत्तद्बुद्धि ग्राह्यमतीन्द्रियम् । तं च मोक्षं विजानीयात् दुष्प्रापमकृतात्मभिः ॥ तथा, आनन्दं ब्रह्मणो रूपं तच्च मोक्षोऽभिलक्ष्यते । विज्ञानमानन्दं ब्रह्मेति।... तत्सिद्धमेतत् नित्यसंवेद्यम् । अनेन सुखेन विशिष्टा आत्यन्तिकी दुःखनिवृत्तिः पुरुषस्य मोक्ष इति ।" न्यायसा० पृ० ४०, ४१ ।
(D-1) "हस पिब लल मोद नित्यं विषायनुपभुञ्ज कुरु च मा शङ्काम् । यदि विदितं ते कपिलमतं तत्प्राप्स्यसे मोक्षसौख्यं च ॥" सां० का० माठर० पृ० ५३ ।
___ (D-2) "तथा च उक्तं पञ्चशिखेन प्रमाणवाक्यम्-पञ्चविंशतित्वज्ञः..." तत्त्वयाथा० पृ० ६१ । सन्मति० टी० पृ० २८२ । न्यायाव० टी० पृ० १४ । वस० सू० वृ० १२४ ।
(D-3) "सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः... ॥" सां० का०१३। त्रैगुण्यम् ॥ सत्त्वं रजस्तम इति गुणा: भावे ण्य स्त्रैगुण्यम् । प्रसादो लाघवं सङ्गः प्रसङ्गात् प्रीतिरार्जवम् ।। तुष्टिस्तितिक्षा सत्त्वस्य रूपं साक्षात् सुखावहम् । शोकस्तम्भद्वेषतापखेदभोगाभिमानिता ॥ रजोरूपाण्यनेकानि बहुदुःखप्रदानि वै । तमो नामाच्छादनादि बीभत्सावरणादि च ॥ दैन्यगौरवनिद्रादि-प्रमादालस्यलक्षणम् । मोहात्मकमनन्तं तदेवं त्रैगुण्यमीरितम् । सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्तकम् ॥ विनाशकं तमो विद्यात् त्रैगुण्यं नाम संज्ञितम् । सांख्यसं० पृ० १४ । भगवद्गी० १४।६-८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org