________________
५५२
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
(C-77) “हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥” न्यायसू० ५।२।१२ ।
(C-78) “हेतूदाहरणाधिकमधिकम् ॥” न्यायसू० ५।२।१३ ।
(C-79) “शब्दार्थयो: पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्।” न्यायसू० ५।२।१४। “अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ॥ न्यायसू० ५।२।१५ ।
(C-80) “विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् ॥” न्यायसू० ५।२।१६ । (C-81) "अविज्ञातं चाज्ञानम् !” न्यायसू० ५।२।१७ ।
(C-82) “उत्तरस्याप्रतिपत्तिरप्रतिभा ||" न्यायसू० ५।२।१८ ।
(C-83) “कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ||” न्यायसू० ५।२।१९ ।
(C-84) “स्वपक्षे दोषाभ्युपगमात् परपक्षे क्षेपसङ्गो मतानुज्ञा ||" न्यायसू० ५।२।२० । (C-85) ‘“निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ||" न्यायसू० ५।१।२१ । (C-86) “अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ||" न्यायसू० ५।२।२२ । (C-87) “सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः ॥ न्यायसू० ५।२।२३ ॥ (C-88) “हेत्वाभासश्च यथोक्ताः ||" न्यायसू० ५।२।२४ ।
(C-89) “ते इमे हेत्वाभासा न्यायप्रविवेकं कुर्वन्तो वस्तुशुद्धिं विदधतीति पृथगुच्यन्ते । अत एव निग्रहस्थानान्तर्गतानामप्येषां पृथगुपदेशः ।" न्यायक० पृ० १६ ।
(C-90) “तदेवं छलजातिनिग्रहस्थानस्वरूपाभिज्ञा: स्ववाक्ये तानि वर्जयन् परप्रयुक्तानि च समादधन् यथाभिमतसाध्यसिद्धिं लभते ।" न्यायक० पृ० २७ ।
(C-91) "उपलब्धिहेतुश्च प्रमाणम् ।" न्यायभा० २। १ । ११ ।
(C-92) “ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत् ।" प्रश० व्यो० पृ० ५२९ । “विवादाध्यासिताः प्रत्ययान्तरेणैव वेद्याः प्रत्ययत्वात् । एवं प्रमेयत्वगुणत्वसत्त्वादयोऽपि प्रत्ययान्तरवेद्यत्व - हेतवः प्रयोक्तव्याः ।” विधिवि० न्यायकणि० पृ० २६७ | "करणं हि प्रमाणमुच्यते प्रमीयतेऽनेन इति । न च क्रियैव क्वचित् करणं भवति, क्रियायां साध्यायां कारकं किमपि करणमुच्यते यथा दात्रेण चैत्र: शालिस्तम्बं लुनाति इति कर्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते तथेहापि चक्षुषा घटं पश्यतीति दर्शनक्रियातः पृथग्भाव एव तेषां युक्तो न दर्शनं करणमेव इति । प्रमा प्रमाणमिति तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रम् कृति: करणमितिवत् .... तेन चक्षुरादेः ज्ञानक्रियामुपजनयत: करणत्वं ज्ञानस्य फलत्वमेवेति युक्तः तथाव्यपदेश....." न्यायमं० पृ० ७० । स्वातिरिक्तेत्यादिना शंकरस्वामी प्रमाणयति - स्वातिरिक्तक्रियाकारि प्रमाणं कारकत्वतः वास्यादिवत्. ॥१३५३॥ तत्त्वसं० ।
(C-93) “यदा निर्विकल्पकं सामान्यविशेषज्ञानं प्रमाणम् तदा द्रव्यादिविषयं विशिष्टं ज्ञानं प्रमितिः इत्यर्थः । यदा निर्विकल्पकं सामान्यविशेषज्ञानमपि प्रमारूपमर्थप्रतीतिरूपत्वात् तदा तदुत्पत्तावविभक्त-मालोचनमात्रं प्रत्यक्षम्..... विशेषज्ञानं हि विशेषणज्ञानस्य फलम् विशेषणज्ञानं न ज्ञानान्तरफलम् ... यदा निर्विकल्पकं सामान्यविशेषज्ञानं फलं तदा इन्द्रियार्थसन्निकर्षः प्रमाणम्, यदा विशेष्यज्ञानं फलं तदा सामान्यविशेषालोचनं प्रमाणम्
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org