________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
51
(C-56) "प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिर्भवति ।" न्यायक० पृ० १८ । (C-57) "प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः ।" न्यायक० पृ० १८ । (C-58) "अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिर्भवति ।" न्ययाक० पृ० १९ ।
(C-59) "साधर्म्यवैधर्म्यसमा जातिय पूर्वमुदाहृता सैव संशयेनोपक्रियमाणा संशयसमा जातिर्भवति।" न्यायक० पृ० १९ ।
(C-60) "द्वितीयपक्षोत्थापनबुद्धया प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा जातिः प्रकरणसमा भवति।" न्यायक० पृ० १९ ।
(C-61) "निग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः ।" न्यायम० प्रमे० पृ० १९० ।
(C-62) "विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥" न्यायसू० १।२।१९। ___ (C-63) "विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः विप्रतिपद्यमानः पराजयं प्राप्नोति निग्रहस्थानं खलु पराजयप्राप्तिः । अप्रतिपत्तिस्त्वारम्भविषयेऽप्यप्रारम्भः = परेण स्थापितं वा न प्रतिषेधति। प्रतिषेधं वा नोद्धरति ।" न्यायभा० १।२।१९ ।
___(C-64) "आरम्भस्य विषयः साधनस्य ज्ञापनं दूषणस्योद्धरणं तयोरकरणमप्रतिपत्तिः । द्विधा हि वादी पराजीयते यथा वक्तव्यमप्रतिपद्यमानो विपरीतं वा प्रतिपद्यमान इति ।" न्यायक० पृ० २२।। ____(C-65) "प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञान प्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ।" न्यायसू० ५।२।१ ।
___ (C-66) "तत्र अननुभाषणमज्ञानप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमित्यप्रतिपत्ति-निग्रहस्थानं शेषस्तु विप्रतिपत्तिरिति ।" न्यायभा० १।२।२०।।
(C-67) "प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ।" न्यायसू० ५।२।२। (C-68) "प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ।" न्यायसू० १।२।३ । (C-69) "प्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधः ।" न्यायसू० ५।२।४ । (C-70) "पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ॥" न्यायसू० ५।२।२ । (C-71) "अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ।" न्यायसू० ५।२६ । (C-72) "प्रकृतादर्थादप्रतिसंबद्धार्थमर्थान्तरम् ।।" न्यायसू० ५।२७ । (C-73) "वर्णक्रमनिर्देशवद् निरर्थकम् ।।" न्यायसू० २।२।८ । (C-74) "परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ।" न्यायसू० ५।२।९। (C-75) “पौर्वापर्यायोगादप्रतिसंबद्धार्थमपार्थकम् ॥" न्यायसू० ५।२।१०। (C-76) "अवयवविपर्यासवचनमप्राप्तकालम् ।" न्यायसू- ५।२।११।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org