________________
५५०
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
____(C-42) "पक्षविपक्षयोरेव वर्तमानो हेतुविरुद्धः।" न्यायसा० पृ०७। "सपक्षे सत्त्वं यस्य नास्ति विपक्षे च वृत्तिरस्ति स साध्यविपर्ययसाधनत्वाद् विरुद्धो भवति । यथा अश्वोऽयं विषाणत्वादिति ।" न्यायक० पृ० ४।
(C-43) "पक्ष-सपक्ष-विपक्षवृत्तिरनैकान्तिकः ।" न्यायसा० पृ०७।
(C-44) "विपक्षादपरिच्युतः पक्षसपक्षयोर्वर्तमानो हेतुः सव्यभिचारित्वादनैकान्तिको भवति ।" न्यायक० पृ० १४ ।
(C-45) "प्रत्यक्षागमविरुद्धः कालात्ययापदिष्टः । अबाधितपरपक्षपरिग्रहो हेतुप्रयोगकाल: तमतीत्यासावुपदिष्ट इति । अनुष्णोऽग्निः कृतकत्वात् घटवदिति प्रत्यक्षविरुद्धः । ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवत् इत्यागमविरुद्धः।" न्यायक० पृ० १५ । प्रमाणबाधिते पक्षे वर्तमानो हेतुः कालात्ययापदिष्टः । न्यायसा० पृ०७।
(C-46) "स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः।" न्यायसा० पृ० ७, न्यायक० पृ० १५।
(C-47) "वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ।" न्यायसू० १।२।१० । “तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः छलम् ।" न्यायकलि० पृ० १६ ।
(C-48) "तत्त्रिविधम् - वाक्छलं सामान्यछलमुपचारछलं चेति ।" न्यायसू० १।२।१२।
(C-49) "अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् । नवकम्बलोऽयं माणवक इति प्रयोगः । अत्र नवः कम्बलोऽस्य इति वक्तुरभिप्रायः, विग्रहे तु विशेषो न समासे । तत्रायं छलवादी वक्तुरभिप्रायादविवक्षितमन्यार्थं नव कम्बला अस्येति तावदभिहितं भवता इति कल्पयति । कल्पयित्वा च असंभवेन प्रतिषेधति एकोऽस्य कम्बलः कुतो नव कम्बला इति ।" न्यायभा० १।२।१२ ।
(C-50) "संभवतोऽर्थस्य अतिसामान्ययोगात् असंभूतार्थकल्पनासामान्यछलम् ॥१३॥ अहो खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इत्युक्ते कश्चिदाह-संभवति ब्राह्मणे विद्याचरणसंपदिति, अस्य वचनस्य विघातोऽर्थविकल्पोपपत्त्या असंभूतार्थविकल्पनया वियते यदि ब्राह्मणे विद्याचरणसंपत् संभवति व्रात्येऽपि संभवेत् व्रात्योऽपि ब्राह्मणः सोऽप्यस्तु विद्याचरणसंपन्न इति ।" न्यायभा० १।२।१३ । ___ (C-51) "धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम् ।" न्यायसू० १।१।१४ । “औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानमुपचारछलम् । मञ्चाः क्रोशन्तीति इत्युक्ते परः प्रत्यवतिष्ठते मञ्चाः कथमचेतनाः क्रोशन्ति । मञ्चस्थाः पुरुषाः क्रोशन्तीति ।" न्यायक० पृ० १६ । ___(C-52) "तदत्र छलत्रयेऽपि वृद्धव्यवहारप्रसिद्धशब्दसामर्थ्यपरीक्षणमेव समाधानं वेदितव्यमिति।" प्र० मी० पृ०।
(C-53) "प्रयुक्ते हेतौ समीकरणाभिप्रायेण प्रसङ्गो जातिः।" न्यायसा० पृ०१७। “सम्यग्हेतौ हेत्वाभासे वा प्रयुक्ते झटिति तद्दोषतत्त्वाप्रतिभासे तु प्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिरित्युच्यते ।" न्यायक० पृ० १७ । “अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ।" प्र० मी० २।१।२९ ।
(C-54) "साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिर्भवति ।" न्यायक० पृ० १८ । (C-55) "प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्तिसमे जाती भवतः ।" न्यायक० पृ० १८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org