________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
५४९
(C-27) “लिङ्गं वह्निर्धूमः - भ० २।"
(C-28) "साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ।" न्यायसू० १११।३६ । "दृष्टान्तवचनमुदाहरणम् । दृष्टान्तो द्विविधः ।"
(C-29) "साधर्मेण वैधयेण च ।" न्यायक० पृ० ११ । (C-30) "उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ॥" न्यायसू० ११३८ । (C-31) "हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥" न्यायसू० १।१।३९ ।
(C-32) "अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ।" न्यायसू० १।१।४० । "अविज्ञाततत्वे धर्मिणि एकतरपक्षानुकूलार्थदर्शनेन तस्मिन् संभावनाप्रत्ययरूप ऊहस्तर्क उच्यते । यथा वाहकेकिप्रदेशे उर्ध्वत्वदर्शनात् पुरुषेणानेन भवितव्यमिति संभावनाप्रत्ययः ।" न्यायक० पृ० १३ ।
(C-33) "विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥" न्यायसू० १।१।४१ । ___ (C-34) "प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥" न्यायसू० १।२।१।
(C-35) "वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा। सा द्विविधा। वीतरागकथा विजिगीषुकथा चेति। यत्र वीतरागो वीतरागेणैव सह तत्त्वनिर्णयार्थं साधनोपालम्भौ करोति सा वीतरागकथा वादसंज्ञयोच्यते । तं प्रतिपक्षहीनमपि वा कुर्यात् प्रयोजनार्थित्त्वेन । यथा शिष्यो गुरुणा सह प्रश्नद्वारेणैवेति ।" न्यायसा० पृ० १५।
(C-36) "विजिगीषुर्विजिगीषुणा सह लाभपूजाख्यातिकामो जयपराजयार्थं प्रवर्तते सा विजिगीषुकथा । वीतरागो वा परानुग्रहार्थं ज्ञानाङ्करसंरक्षणार्थं च प्रवर्तते सा चतुरङ्गा । वादिप्रतिवादिसभापतिप्राश्निकाङ्गा । विजिगीषुकथा जल्पवितण्डासंज्ञोक्ता ।" न्यायसा० पृ० १६ ।
(C-37) "स एव पक्षप्रतिपक्षपरिग्रहो विजिगीषया प्रयुक्तः छलजातिनिग्रहस्थानप्रयोगबहुलो जल्पः । स्वपक्षसाधनोपन्यासहीनो जल्प एव वितण्डा भवति ।" न्यायभा० पृ० १३ ।
(C-38) "मुमुक्षुरपि क्वचित्प्रसङ्गे तदुपयोगात् ।" न्यायम० प्रमे० पृ० १५२ ।
(C-39) "तयोरेकतरं वैतण्डिको न स्थापयतीति । परपक्षप्रतिषेधेनैव प्रवर्तते इति ।" न्यायभा० १।२।।
(C-40) "सव्यभिचारविरुद्ध प्रकरणसम साध्यसमकालातीता हेत्वाभासाः।" न्यायसू०१।२।४।"अहेतवो हेतुवदवभासमानाः हेत्वाभासाः । हेतोः पञ्च लक्षणानि पक्षधर्मत्वादीनि उक्तानि । तेषामेकैकापाये पञ्च हेत्वाभासा भवन्ति । असिद्ध-विरुद्ध-अनैकान्तिककालात्ययापदिष्टप्रकरणसमाः।" न्यायक० पृ० १४ । न्यायसा० पृ०७।
(C-41) "तत्र पक्षधर्मत्वं यस्य नास्ति सोऽसिद्धः । यथानित्यः शब्दः चाक्षुषत्वादिति ।" न्यायक० पृ० १४ । “तत्रानिश्चितपक्षावृत्तिरसिद्धः ।" न्यायसा० पृ०७।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org