________________
५४८
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
(C-14) "तदत्यन्तविमोक्षोऽपवर्गः।" न्यायसू० १।१।२२ । “जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणम् अपवर्ग इति ।" न्यायभा० १।१९ । “आत्यन्तिको दुःखवियोगोऽपवर्गः सर्वगुणवियुक्तस्यात्मनः स्वरूपावस्थानम् । सुखदुःखयोविवेकहानस्याशक्यता। दुःखं जिहासुः सुखमपि जह्यात् । तस्मात्परमपुरुषार्थोऽपवर्गः । स च तत्त्वज्ञानादवाप्यते ।" न्यायक० पृ०८।
(C-15) "विशेषस्मृतिहेतोर्धर्मस्य ग्रहणाद् विशेषस्मृतेश्च जायमानः किंस्वित् इति विमर्शः संशयः ।" न्यायक० पृ०८।
(C-16) "यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् ।" न्यायसू० १।१।२४ । (C-17) "लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ।" न्यायसू० १।१।२५ ।
(C-18) "अयमेवमिति प्रमाणमूलाभ्युपगमः विषयीकृतः सामान्यविशेषवानर्थः सिद्धान्तः ।" न्यायक० पृ०९।
(C-19) "सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ।" न्यायसू० १।१।२७ ।
(C-20) "सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः । ॥२८॥ यथा घ्राणादीनीन्द्रियाणि । गन्धादय इन्द्रियार्थाः । पृथिव्यादीनि भूतानि । प्रमाणैरर्थस्य ग्रहणमिति ।" न्यायभा० १।१।२८ ।
(C-21) "समानतन्त्रासिद्धः परतन्त्रसिद्धः प्रतितन्त्रसिद्धान्तः । ।।२९।. यथानाऽसत आत्मलाभः । न सत आत्महानम्। निरतिशयाश्चेतनाः । देहेन्द्रियमनस्सु विषयेषु तत्कारणे च विशेष इति सांख्यानाम्। पुरुषकर्मादिनिमित्तो भूतसर्गः । कर्महेतवो दोषाः प्रवृत्तिश्च । स्वगुणविशिष्टाश्चेतनाः । असदुत्पद्यते उत्पन्नं विरुध्यते इति योगानाम् ।" न्यायभा० १।१।२९ ।
(C-22) "यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरण सिद्धान्तः । ॥३०॥ यस्यार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते = न तैर्विना सोऽर्थः सिध्यति तेऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिभिः, अत्रानुषङ्गिणोऽर्थाः - इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि । गन्धादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणम् । अनियतविषया-श्चेतना इति पूर्वार्थसिद्धावेतेऽर्थाः सिध्यन्ति । न तैविना सोऽर्थः संभवतीति ।" न्यायभा० १।१।३० ।
(C-23) "अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ।३१। यत्र किंचिदर्थजातमपरीक्षितमभ्युपगम्यते-अस्तु द्रव्यं शब्दः स तु नित्यो अथानित्यः । इति द्रव्यस्य सतो नित्यतानित्यता वा तद्विशेष: परीक्ष्यते सोऽभ्युपगमसिद्धान्तः, स्वबुद्ध्यतिशयविख्यापयिषया परबुद्ध्यवज्ञानाय प्रवर्तते इति ॥" न्यायभा० १।१।३१ ।
(C-24) "प्रतिज्ञाहेतुदाहरणोपनयनिगमानान्यवयवाः ।" न्ययासू० १।१।३२ ।
(C-25) "साध्यनिर्देशः प्रतिज्ञा।" न्यायसू० १।१।३३ । “तत्र साध्यधर्मविशिष्टस्य धर्मिणो निर्देशः प्रतिज्ञा । यथा नित्यः शब्द इति । एष एव पक्ष उच्यते ।" न्यायक० पृ० ९।
(C-26) "उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः।" न्यायसू० १।१।३४ । “लिङ्गवचनं हेतुः।" न्यायक० पृ० १० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org