________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
५४७
___(B-99) "तत्र देहादिदुःखान्तं हेयमेव व्यवस्थितम् । उपादेयोऽपवर्गस्तु द्विधावस्थितिरात्मनः । सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः । उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥" न्यायम० प्रमे० पृ० २।
(B-100) "तत्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानुभवी ।" न्यायभा० १।१।९ । इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मानो लिङ्गमिति । न्यायसू० १।१।१०।
(C-1) "चेष्टेन्द्रियार्थाश्रयः शरीरम् ।" न्यायसू-१।१।११। "तस्य भोगायतनं शरीरम् ।" न्यायभा० १।१।९।
(C-2) "घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्य: ।" न्यायसू० १।१।१२ । भोगसाधनानि इन्द्रियाणि । न्यायभा० १।१।९।
(C-3) "गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ।" न्यायसू० १।१।१४ । “भोक्तव्या इन्द्रियार्थाः ।" न्यायभा० १।१।१।
___ (C-4) "गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥" अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥ न्यायसू० ३।१।६१, ६२ । चतुर्गुणा पृथिवी त्रिगुणा आपः, द्विगुणं तेजः एक गुणो वायुः इति नियमश्चोपपद्यते । न्यायभा० ३।१६५ ।
(C-5) "बुद्धिरुपलब्धिनिमित्यनर्थान्तरम्।" न्यायसू० १।१।१५ । भोगोबुद्धिः । न्यायभा० १।१।९, न्यायक० पृ० ७।
(C-6) "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।" न्यायसू० १।१।१६ । (C-7) "सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तः करणं मनः ।" न्यायभा० १।१।९
(C-8) "इन्द्रियार्थसंनिकर्षे सत्यपि युगपज्ज्ञानानुत्पाादात्....तच्चाणु वेगवदाशुसंचारि नित्यम्...."न्यायक० पृ० ७।
(C-9) "प्रवृत्तिर्वाग्बुद्धिशरीरेभ्य इति ।" न्यायसू० १।१।१७ । न्यायक० पृ० ७ । “प्रवर्तनालक्षणा दोषाः ।" न्यायसू० १।१।१८ ।
(C-10) "रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते । तथा द्विष्टस्तथा मूढ इति रागद्वेषमोहा इत्युच्यमानो बहुनोक्तं भवति ।" न्यायभा० १।१।१८ । न्यायक० पृ० ७ ।
(C-11) "पुनरुत्पत्तिः प्रेत्यभावः ।" न्यायसू० १।१।१९ उत्पन्नस्य क्वचित् सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः, उत्पन्नस्य - संबद्धस्य, संबन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः, पुनरुत्पत्तिः - पुनर्देहादिभिः, संबन्ध,.... । प्रेत्यभावः - मृत्वा पुनर्जन्म, सोऽयं जन्ममरण प्रबन्धाभ्यासोऽनादिरपवर्गान्तः प्रेत्यभावो वेदितव्य इति ।" न्यायभा० १।१।१९ । न्यायक० पृ० ७ ।
(C-12) "प्रवृत्तिदोषजनितोऽर्थः फलम् ।" न्यायसू० १।१।२० । प्रवृत्तिदोषजनकं सुखदुःखात्मकं मुख्यं फलम् । तत्साधनं तु गौणम् । न्यायक० पृ० ७।
(C-13) "बाधनालक्षणं दुःखम् ।" न्यायसू० १।१।२१ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org