________________
५४६
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
(B-87) "तुलना-यत्नतः परीक्षितं कार्यं कारणं नातिवर्तते इति चेत् स्तुतं प्रस्तुतम् ।" अष्ट० श०, अष्टसह० पृ० ७२ । प्रमेयरत्नमा- ३३१० । लघी० ता० पृ० ४९ । सुविवेचितं कार्यं कारणं न व्यभिचरति । - न्यायकुमु० पृ० ६०४।
(B-88) "प्रतिपत्तुरपराधो नानुमानस्येति ।" अष्टश० अष्टस० पृ० ७२ न्यायकुमु० पृ० ७३ । स्या० रत्ना० पृ० २६९ । प्रमातुरपराधोऽयं विशेष यो न पश्यति । नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः ।। न्यायम० प्रमा० पृ० ११८ ।
(B-89) "शेषवत्-तद् यत्र कार्येण कारणमनुमीयते पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिरिति ।" न्यायभा० १।१।५ । उपरि वृष्टिमद्देशसंबन्धिनी नदी स्रोतः शीघ्रत्वे सति पूर्णफलकाष्ठादिवहनवत्त्वे सति पूर्णत्वात् पूर्णवृष्टिमन्नदीवदिति । न्यायवा० पृ० ४७ ।
(B-90) "पूर्ववदिति यत्र यथापूर्वं प्रत्यक्षभूतयोरन्यतरदर्शनेनान्यतरस्याप्रत्यक्षस्यानुमानं यथा धूमेनाग्निरिति ।" न्यायभा० ११५ ।
(B-91) "शेषवद् नाम परिशेषः स च प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् शिष्यमाणे संप्रत्ययः ।" न्यायभा० १।१५।
(B-92) "सामान्यतोदृष्टं तु नित्यपरोक्षे धर्मिणि व्याप्तिग्रहणादनुमानम् । यथेच्छादिना कार्येणात्मानुमानं वक्ष्यते ।" न्यायक० पृ० ३ । सामान्यतोदृष्टस्य नित्यपरोक्षानुमेयैकविषयत्वात् । न्यायम० प्रमा० पृ० १२१ ।
(B-93) "एकत्राप्युदाहरणे त्रैविध्यमभिधातुं शक्यते यथा इच्छादिकार्यमाश्रितं कार्यत्वाद् घटवद् इत्याश्रयमात्रे साध्ये पूर्ववदनुमानम्, प्रसक्तशरीरेन्द्रियाद्याश्रयप्रतिषेधेन विशिष्टाश्रयकल्पने तदेव परिशेषानुमानम्, अनुमेयस्य नित्यपरोक्षत्वात् तदेव सामान्यतोदृष्टं च ।" न्यायम० प्रभा० पृ० १२१ ।
(B-94) "तुलना-गम्भीरगजितारम्भनिभिन्नगिरिगह्वरा । रोलम्बगवलव्यालतमालमलिनत्विषः । त्वङ्गतडिल्लतासङ्गपिशङ्गोतुङ्गविग्रहाः । वृष्टिं व्यभिचरन्तीह नैव प्रायः पयोमुचः ।।" न्यायम० प्रमा० पृ० ११७। आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुरत्फेनच्छटाञ्चितः ॥ वहद्बहलशैवालवनशाद्वलसंकुलः । नदीपूरविशेषोऽपि शक्येत न निवेदितुम् ।। न्यायम० प्रमा० पृ० ११८ । ___ (B-95) “यदा खल्वयं गवा समानधर्मं प्रतिपद्यते तदा प्रत्यक्षतः तमर्थं प्रतिपद्यते इति, समाख्यासंबन्धप्रतिपत्तिरुपमानार्थ इत्याह । यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समानधर्ममर्थम् इन्द्रियार्थसंनिक दुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसंबन्धं प्रतिपद्यते इति ।" न्यायभा० ११६
(B-96) "प्रसिद्धिरुभयी श्रुतिमयी प्रत्यक्षमयी च । श्रुतिमयी यथा गौरेवं गवय इति । प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टोऽयमीदृशः पिण्ड इति । तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासंबन्धप्रतिपत्तिहेतुः ।" न्यायभा० ता० टी० पृ० १९७ ।
(B-97) "आप्तोपदेशः शब्दः ।" न्यायसूत्र १११७ । आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । न्यायभा १।१७।
(B-98) "आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ।" न्यायसू० १।१९।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org