________________
५५६
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी
परिशिष्ट-६ पारिभाषिकशब्दानुक्रमणी
पारिभाषिक शब्द (सार्थ) श्लोक -१ से ३
(१) अनन्तधर्मात्मकस्य वस्तुनो य एकदेशोऽन्यदेशनिरपेक्षस्तस्य यदवधारणं सोऽपरिशुद्धो नयः । अनन्तधर्मात्मकस्य वस्तुनो य एकदेशोऽन्यदेशसापेक्षस्तस्य यदवधारणं सः परिशुद्धो नयः ।
(२) क्रियां जीवाद्यस्तित्वं वदन्तीत्येवंशीला: क्रियावादिनः । (३) नियति म तत्त्वान्तरमस्ति यद्वाशादेते भावाः सर्वेऽपि नियतेनैव रुपेण प्रादुर्भावमश्नुवते नान्यथा ।
(४) न कस्यचित्प्रतिक्षणमवस्थितस्य पदार्थस्य क्रिया संभवति उत्पत्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति ते अक्रियावादिनः।
(५) यदृच्छा ह्यनभिसंधिपूर्विकार्थप्राप्तिः । ये भावानां संतानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति, किं तु यदृच्छया, ते यदृच्छावादिनः ।
(६) अज्ञानेन चरन्तीत्यज्ञानिकाः । कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः । (७) विनयेन चरन्तीति वैनयिकाः । (८) तत्त्वानि प्रमाणैरुपपन्नाः परमार्थसन्तोऽर्थाः । (९) बुद्धाः सप्त भवन्ति । तेषामिदं दर्शनं बौद्धम्। (१०) न्यायं न्यायतर्कमक्षपादर्षिप्रणीतं ग्रन्थं विदन्त्यधीयते वेति नैयायिकास्तेषांमिदं दर्शनं नैयायिकम् (११) संख्यां प्रकृतिप्रभृतितत्त्वपञ्चविंशतिरुपां विदन्त्यधीयते वा सांख्याः । (१२) जिना ऋषभादयश्चतुर्विंशतिरर्हन्तस्तेषामिदं दर्शनं जैनम् ।
(१३) नित्यद्रव्यवृत्तयोऽन्त्या विशेषा एव वैशेषिकम् तद्वैशेषिकं विदन्त्यधीयते वा वैशेषिकाः । तेषामिदं दर्शन वैशषिकम् ।
(१४) जैमिनिराद्यः पुरुषविशेषस्तस्येदं मतं जैमिनीयं मीमांसकापरनामकम्। (बौद्धदर्शनम्) श्लोक - ४ से ११ (१) धर्मबुद्धसङ्घरुपं रत्नत्रयम् ।
(२) आरादूराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः । सतां साधूनां पदार्थानां वा यथासंभवं मुक्तित्रापकत्वेन यथावस्थित वस्तुरुपचिन्तनेन च हितानि सत्यानि । आर्याणां सत्यानि आर्यसत्यानि ।
(३) आर्यसत्यानि चत्वारि सन्ति । तद्यथाः १.दुःखम्, २. समुदयः, ३. दुःखनिरोधः, ४. दु:खनिरोध मार्गश्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org