________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी
५५७.
(४) दुःखं फलभूताः पञ्चोपादानस्कन्धा विज्ञानादयः । त एव तृष्णासहाया हेतुभूताः समुदयः । निःक्लेशवस्था चित्तस्य निरोधः । निरोधहेतुनैरात्म्याद्याकारश्चित्तविशेषो मार्गः।
(५) सामीप्ये च व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् । (६) संसरन्ति स्थानात्स्थानान्तरं भवाद् भवान्तरं वा गच्छन्तीत्येवंशीलाः संसारिणः ।
(७) स्कन्धाः सचेतना अचेतना वा परमाणुप्रचयविशेषाः ते च स्कन्धाः पञ्च प्रकीर्तिताः । तद्यथाविज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धः, रुपस्कन्धश्च । तत्र रुपविज्ञानं रसविज्ञानमित्यादि निर्विकल्पकं विज्ञानं विशिष्टज्ञानं विज्ञानस्कन्धः । सुखा दुःखा अदुःखसुखा चेति वेदना वेदनास्कन्धः । संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्ययः संज्ञास्कन्धः । पुण्यापुण्यादिधर्मसमुदाय: संस्कारस्कन्धः पृथिवीधात्वादयो रुपादयश्च रुपस्कन्धः।
(८) आत्मात्मीयसंबंधेन परपरकीयसंबंधेन वा यतो रागद्वेषादयः समुद्भवति स समुदयः । (९) परमनिकृष्टः कालः क्षणः, तत्र भवाः क्षणिकः क्षणमात्रावस्थितः । (१०) बौद्धमते सर्वसंस्काराः = सर्वपदार्थाः क्षणविनश्वराः । (११) यदेवार्थक्रियाकारि तदेव परमार्थसद् । (१२) यत् सत् तत् क्षणिकम् ।
(१३) बौद्धाः द्वादशायतनानि अभिदधते । तद्यथा:- १. चक्षु, २. श्रोत्र, ३. घ्राण, ४. रसन, ५. स्पर्शन, ६. रुप, ७. रस, ८. गंध, ९. स्पर्श, १०. शब्द, ११. मन, १२. सुख-दुःखादि धर्म ।
(१४) प्रमाणस्य विशेषलक्षणं सामान्यलक्षणाविनाभावीति नियमः ।
(१५) अविसंवादकं ज्ञानं प्रमाणम् । अविसंवादकत्वं चार्थप्रापकत्वेन व्याप्तम् । अर्थव्यापकत्वं च प्रवर्तकत्वेन व्यापि । प्रवर्तकत्वमपि विषयोपदर्शकत्वेन व्यानशे ।
(१६) एवकारो विशेषणेन विशेष्येण क्रियया च सह भाष्यमाणः क्रमेणायोगान्ययोगात्यन्तायोगव्यवच्छेदकारित्वात्रिधा भवति ।
(१७) बौद्धदर्शने प्रत्यक्षानुमानलक्षणे द्वे एव प्रमाणे । (१८) नानुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः ।
(१९) यत्र यत्प्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्था न तत्र प्रकारान्तर संभवः । तद्यथा पीतादौ नीलप्रकारव्यवच्छेदेनानीलप्रकारव्यवस्थायाम् ।
(२०) प्रतिगतमक्षमिन्द्रियं प्रत्यक्षम् । कल्पनापोढमभ्रान्तं प्रत्यक्षम् । प्रत्यक्षं कल्पनापोढं नामजात्यद्यसंयुक्तम् । (२१) अतस्मिंस्तद्ग्रहो भ्रान्तिः ।
(२२) प्रत्यक्षं नासद्भूतवस्तुग्राहकं, किं तु यथावत्परस्परविविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणपरिच्छेदकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org