________________
५५८
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी
(२३) इदं प्रत्यक्षं चतुर्धा। इन्द्रियज्ञानं, मानसं, स्वसंवेदनं, योगिज्ञानं च । तत्र चक्षुरादीन्द्रियपञ्चकाश्रयेणोत्पन्नं बाह्यरुपादिपञ्चविषयालम्बनं ज्ञानमिन्द्रियप्रत्यक्षम् । स्वविषयानन्तरं विषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययसंज्ञकेन जनितं मनोविज्ञानं मानसम्। सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनम् चित्तं वस्तुमात्रग्राहकं ज्ञानं। चित्ते भवाश्चैत्ता वस्तुविशेषा रुपग्राहकाः सुखदुःखापेक्षालक्षणाभूतार्थभावनाप्रकर्ष पर्यन्तजं योगिज्ञानम् । (भूतार्थः प्रमाणोपपन्नार्थः ।) भावना पुनः पुनश्चेतसि समारोपः ।
(२४) बौद्धा ज्ञानस्य चत्वारः प्रत्यया आमनन्ति । तद्यथा १. आलंबन प्रत्ययः, २. सहकारिप्रत्ययः, ३. अधिपत्ति प्रत्ययः, ४. समनन्तर प्रत्ययश्च ।
(२५) अतस्मिंस्तद्ग्रहो भ्रान्तिरपि संधानतः प्रमा।
(२६) त्रिरुपाल्लिङ्गाद्धेतोः सम्यगवगताल्लिङ्गिनः परोक्षस्य वस्तुनो यज्ज्ञानं, तदनुमानसंज्ञितं प्रमाणम् । लिङ्गाल्लिङ्गिज्ञानमनुमानमभिधीयते । तच्च द्वेधा, स्वार्थं परार्थं च । यदा च त्रिरुपाल्लिङ्गात् स्वयं लिङ्गिनं साध्यं प्रतिपद्यते, तदा स्वार्थानुमानम् । यदा तु परं प्रति साध्यस्य प्रतिपत्तये त्रिरुपहेत्वभिधानं, तदा परार्थमनुमानम्
(२७) लिङ्गम् - अनुपलब्धिस्वभावकार्यभेदात्त्रिधैव भवति । तत्र अनुपलब्धिः चतुर्धा (मूलभेदापेक्षया) वर्ण्यते १. विरुद्धोलब्धिः, २. विरुद्धकार्योपलब्धिः, ३. कारणानुपलब्धिः, ४. स्वभावानुपलब्धिश्च । ___ (२८) अविनाभावश्च तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तः ।
(२९) तादात्म्यतदुत्पत्ती चानुपलब्धिस्वभावकार्येष्वेव विद्येते नान्यत्र ।
(३०) ततस्तादात्म्यतदुत्पत्तिप्रतिबन्धविकलानामनुपलब्धिस्वभावकार्यव्यतिरिक्तानामर्थानां सर्वेषां हेत्वाभासतैव प्रत्येतव्या।
(३१) पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्वलक्षणानि हेतोलिङ्गस्यत्रीणि रूपाणि । (३२) साध्यधर्मविशिष्टो धर्मी पक्षः, तस्य धर्मः पक्षधर्म, तद्भाव: पक्षधर्मत्वम् । पक्षधर्मत्वं पक्षे हेतोःसद्भावः। (३३) समानः पक्षः सपक्षः । सपक्षे = दृष्टान्ते हेतोः सत्त्वम् सपक्षसत्त्वम् । (३४) विरुद्धः पक्षः विपक्षः । विपक्षे हेतोः असत्त्वम् विपक्षासत्त्वम्।
श्लोक - १२ से ३२ (नैयायिकदर्शनम् ) (१) नैयायिकमते विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः सृष्टिसंहारकृच्छिवो देवः ।
(२) ईश्वरजगत्कर्तृत्वे अयं अनुमानप्रयोगः । भूभूधरसुधाकरदिनकरमकराकरादिकं बुद्धिमत्पूर्वकं, कार्यत्वात् । यद्यत्कार्यं तत्तबुद्धिमत्पूर्वकं, यथा घटः, कार्यं चेदं तस्माद्बुद्धिमत्पूर्वकम् । यश्चास्य बुद्धिमान्स्रष्टा, स ईश्वर एवेत्यन्वयः । व्यतिरेके गगनम् ।
(३) नित्योऽप्रच्युतानुत्पन्नस्थिरैकरूप: कूटस्थः । (४) स्वोत्पत्तावपेक्षितपरव्यापारो हि भावः कृतक इष्यते ।
(५) नैयायिकमते षोडश तत्त्वानि भवन्ति । तद्यथा - १. प्रमाण, २. प्रमेय, ३. संशय, ४. प्रयोजन, ५. दृष्टांत, ६. सिद्धांत, ७. अवयव, ८. तर्क, ९. निर्णय, १०. वाद, ११. जल्प, १२. वितण्डा, १३. हेत्वाभास, १४. छल, १५.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org